________________
शिशुपालवधम् पहुँचाते चले आते हुए शिशुपाल का बना रहना ही क्षमा की सीमा है। अब उसे क्षमा नहीं करना चाहिए। तथापि बान्धवत्वात्सोढव्य इत्याशङ्कयाह
मनागनभ्यावृत्या वा कामं क्षाम्यतु यः क्षमी।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः॥४३॥ मनागिति ॥ यः क्षमी सहनः । 'शमित्यष्टाभ्यो घिनुण' ( ३।२।१४१ ) इति घिनुण्प्रत्ययः। स सोढा मनागल्पम् । अभ्यावृत्तावपीति भावः । अनभ्यावृत्त्या सकृद्वा । अनल्पत्वेऽपीति भावः । विराध्यन्तमपकुर्वाणं कामं भृशं क्षाम्यतु क्षमताम् । सम्भावनायां लोट् । शमामष्टानां दीर्घः श्यनि (७१३।७४ ) । क्रियासमभिहारेण भृशं पौनः पुन्येन चेत्यर्थः। न च पुंवाक्येष्वनेकार्थत्वं दोषाय विराध्यन्तं कः क्षमेत सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः। 'शकि लिङ्-' ( ३।३।१७२) इति शक्या. लिङ्ग । 'क्षमू प्रसहने' देवादिको भौवादिकश्च ॥ ४३ ॥ - अन्वया--यः क्षमी सः मनाक अनभ्यावृत्या वा (विराध्यन्तं ) कामं ज्ञाम्यतु । क्रियासमभिहारेण विराध्यन्तं का समेत ॥ ४३ ॥
हिन्दी अनुवाद-जो क्षमा शील है, वह थोड़े अथवा एक वार किये गये बड़े भी अपराध को भले ही क्षमा कर सकता है (क्षमा कर दे) किन्तु बार-बार किये गये अपराध को कौन क्षमा करेगा ? ( अर्थात् कोई नहीं)॥ ४३ ॥
प्रसङ्ग-बलरामजी के मत में साधारण अवस्था में ही क्षमा पुरुषों को भूपण है, किन्तु पराभव के अवसर पर पराक्रम ही उनका आभूषण है। ननु सर्वदा क्षमैव पुंसो भूषणम्, अतोऽपराधेऽपि क्षन्तव्यमत आह
अन्यदा भूषणं पुंसः शमो' लज्जेव योषितः।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥४४॥ अन्यदेति ॥ अन्यदा सुरतव्यतिरिक्त काले योषितो लज्जेव पुंसोऽन्यदा अपरिभवे क्षमा शमो भूषणम् । परिभवे तु योषितः सुरतेषु वैयात्यं धाष्टयमिव । 'धृष्टे धृष्णुवियातश्च' इत्यमरः । पराक्रमः पौरुषं भूष्यतेऽनेनेति भूषणमाभरणम् । एवं चाक्रियावचनत्वान्नियतलिङ्गत्वाद्विरोध इति वल्लभोक्तं प्रत्युक्तम् ॥ ४४ ॥
अन्वयः-अन्यदा योषितः लज्जा इव, पुंसः क्षमा भूषणम्, परिभवे "तु" सुरतेषु योपितः वैयात्यं इव पराक्रमः भूषणम् ॥ ४४ ॥
१. क्षमा।