________________
प्रथमः सर्गः दित्वात् ल्युः । 'भियो हेतुभये षुक्' ( ७।३।४० ) इति पुक् । निकामं भीषणम् । 'सुप्सुपा' इति समासः । रावणो नाम रावण इति प्रसिद्धं रक्षो बभूव । राक्षसयोनी जात इत्यर्थः । विश्रवसोऽपत्यं पुमान् रावण इति विग्रहः । 'तस्यापत्यम्' (४११६२) इत्यणि कृते 'विश्रवसो विश्रवणरवणौ' इति प्रकृते रवणादेशः पौराणिकास्तु रावयतीति व्युत्पादयन्ति । तदुक्तमुत्तरकाण्डे
'यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि' ॥ १६॥३८ इति । रौतेय॑न्ताकर्तरि ल्युट् । रावणरअसोनियतलिङ्गत्वाद्विशेषणविशेष्यभावेऽपि स्वलिङ्गता ॥ ४८ ॥
अन्वयः-अथ स पुनः त्रिदशैः समम् रणेन दर्पजन्मनः कण्वा विनोदम् इच्छन् दिवः सतरक्षणं निकामभीषणं रावणो नाम रतः बभूव ।। ४८ ॥
हिन्दी अनुवाद-अनन्तर (हिरण्यकशिपु के वध के पश्चात् ) वह (हिरण्यक शिपु) पुनः देवों के साथ युद्ध के द्वारा, अभिमानजन्य खुजली को दूर करने की इच्छा करता हुआ स्वर्ग की रक्षा को नष्ट कर देने वाला अत्यन्त भयंकर रावण नामक राक्षस हुआ॥४८॥
नृसिंह भगवान् ने अपने नखों द्वारा हिरण्यकशिपु की छाती फाड़कर उसका वध किया था। अतः ( देवों के साथ युद्ध करने की इच्छा पूर्ण न होने के कारण वही हिरण्यकशिपु अब इस जन्म में रावण के नाम से उत्पन्न होकर अभिमान से उत्पन्न खुजली को युद्ध के द्वारा दूर करना चाहना है ) ॥ ४ ॥
प्रसङ्ग-प्रस्तुत श्लोक से ४९-६६ क्रमांक तक रावण के आतंक का वर्णन किया गया है । यहाँ सर्वप्रथम उसके तपः शौर्य का वर्णन किया गया है। कीदृशोऽसाविति इदानीं तद्वर्णनमाह
प्रभुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाहशमं चिकर्तिषुः॥
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः ॥ ४९ ॥ अथास्योद्धत्य मष्टादशश्लोक्याऽऽचष्टे
प्रभुरिति ॥ यो रावणः भुवनत्रयस्यः प्रभुः स्वामी बुभूषुभं वितुमिच्छुः । भुवः सन्नान्तादुप्रत्ययः । अतिरागादुत्साहात्, न तु फलविलम्वननिर्वेदादिति भावः । दशमं शिरः चितिषुः कतितुं छेत्तुमिच्छुः । 'कृती छेदने' इति धातोः सन्नन्तादुप्रत्ययः। इष्टसाहसः प्रियसाहसः अत एवेच्छासदृश मिच्छानुरूपं पिनाकिनः प्रसादं वरं विघ्नमिवातर्क यदुत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः। इत आरभ्य श्लोकषट्कोऽपि यच्छब्दस्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः । रङ्गराजस्तु' न चक्रमस्याक्रमताधिकन्धरम्' इति उपरिष्टादन्वय इत्याह । तदसत् । 'गुणानां च परार्थत्वात्'