________________
प्रथमः सर्गः
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः । परस्परेणच्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥
१९
प्रफुल्लेति प्रफुल्लतीति प्रफुल्लं विकसितम् । 'फुल्ल विकसने' इति धातोः पचाद्यजन्तम् । फलेर्निष्ठायाम् 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघा:' इति निपातनास्प्रफुल्लमित्येवेति क्षीरस्वामी । तापिच्छस्य तमालस्य पुष्पं तापिच्छम् । ‘फले लुक्' (४।३।१६३) इति तद्धितलुक् । 'द्विहीनं प्रसवे सर्वम्' इति नपुंसकत्वम् । 'कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि ( २५। ७२५ ) इत्यमरः । तेन सदृशैः प्रफुल्लतापिच्छनभः । नित्यसमासत्वादस्वपदविग्रहः अत एव ' स्युत्तरपदेत्वमी' इति 'निभसङ्काशनीकाशप्रतीकाशोपमादयः' (२।११।२००४ ) इत्यमरः । सप्त छदाः पर्णानि पर्वसु अस्येति सप्तच्छदो वृक्षभेदः । 'सप्तपर्णो विशालत्वक्शारदो विषमच्छदः' (२।५।६६४) इत्यमरः । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तं भाष्ये । शेषं तापिच्छ्वत् । तस्य पुष्पाणि सप्तच्छ्दानि तेषां पांसुवत्पाडुभिः शुभ्रैरभीषुभिरन्योन्यरश्मिभिः 'अभीषुः प्रग्रहे रम्भो इति शाश्वतः । परस्परेण छुरिते रूषिते अमले छवी अन्योन्यकान्ती ययोस्ती । छव्योरभीषूणामवयवा - वयविभावाद्भेदनिर्देशः । तो हरिनारदौ तदेकवर्णाविव बभूवतुः । उभयप्रभामेलनादुभयोरपि सर्वाङ्गीणो गङ्गायमुनासङ्गम इव स्फटिकेन्द्रनीलमणिप्रभामेलन प्रायः कश्चिदेको वर्णः प्रादुर्वभूव । तन्निमित्ता चेयमनयोरेकवर्णत्वोत्प्रेक्षा ॥ २२ ॥
अन्वय - प्रकुल्लतापिच्छनिभैः सप्तच्छदपांशुपाण्डुभिः शुभैश्च अमीषुभिः परस्परेणच्छुरितामलच्छवी तौ तदाएकवर्णौ इव बभूवतुः ॥ २२ ॥
हिन्दी अनुवाद - विकसित तमाल-पुष्प के सदृश (श्याम) तथा सप्तछद के पराग के समान शुभ्र और मनोहर प्रभा किरणों से एक दूसरे से मिश्रित हुई निर्मल आभाबाले वे दोनों (श्रीकृष्ण और नारद ) उस समय एकवर्ण की तरह हो गए ।। २२ ।।
( श्रीकृष्ण की श्यामता और नारद मुनि की शुभ्रता परस्पर मिल जाने से दोनों समान वर्ण की तरह प्रतीत होने लगे । )
प्रसङ्ग - नारद मुनि के आगमन से श्रीकृष्ण को इतना हर्ष हुआ कि वह उनके शरीर में समा न सका ।
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ मुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥ २३ ॥
युगान्तेति । युगान्तकाले प्रतिसंहृतात्मनः आत्मन्युपसंहृता आत्मानो जीवा येन तस्य कंठभद्विषो हरेर्यस्यां तनौ जगन्ति सविकास सविस्तरमासताऽतिष्ठन् । 'आस उपवेशने' लङ् । तत्र तनौ देहे तपोधनाभ्यागमेन सम्भवन्तीति सम्भवाः