________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टापदाद्री गगने स्वशक्त्या, ययौ जिनानां पदवंदनाय; निशम्य तीर्थांतिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे त्रिपञ्चसंख्या शततापसानां, तपाकृशानामपुनर्भवाय: अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे सदक्षिणं भोजनमेव देयं, साधर्मिकं संघसपर्ययेति; कैवल्यवस्त्रं प्रददौ मुनीनां, स गौतमो यच्छतु वाञ्छितं मे शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा; पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं मे त्रैलोक्यबीजं परमेष्ठिबीजं, 87 For Private And Personal Use Only