________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कि.
यत्सीमन्तं निरतं विगतकलिमलं मायया वेष्टिताङ्ग जीयात् तत् सिद्धचक्रं विमलवरगुणं देवनागेन्द्रवन्द्यं. ४ यद् वश्यादिककारकं बहुविधं कामार्थिनां कामदम् । यल्लक्षाधिकजापसिद्धविमलं सत्संपदा दायकम् ।। यत् कुष्ठादिकदुष्टदोषदलनं दुःखाभिभूतात्मनाम् यत् तत्त्चैकफलप्रदं विजयतां श्रीसिद्धचक्रं भुवि. ऊर्ध्वाध्मेरेफयुक्तं गगनमुपहतं बिन्दुनाऽनाहतेन ह्रींकारेण प्रकृष्टं स्वरसुगुरुदैर्वेष्टितं बाह्यदेशे। पद्मं वर्गाष्टकाङ्क दलमुखविवरेऽनाहताढ्यं तदित्थं? ही कारेण त्रिवेष्टं कलशवलयितं सिद्धिदं सिद्धचक्रम्, ६ व्योमोर्ध्वाधारयुक्तं शिरसि च विलसन् नादबिन्द्वर्धचन्द्रम् स्वाहान्तौंकारपूर्वैर्गुरुभिरभिवृत सस्वरं चाष्टवर्गम् अन्तस्थानाहतश्रीगणधरवलयालङ्कृतं ध्यानसाध्यं वन्दे श्रीसिद्धचक्रं सुरगणमहितं मायया त्रिःपरीतम्. ७ यत् सर्वाङ्गिहितं मनुष्यमहितं सौख्यालयं धर्मिणाम् यद् दोषैः परिवर्जितम् सुगदितं ध्यानाधिरूढाङ्कितम् यत् कर्मक्षयकारकं सुधवलं मन्त्राधिपाधिष्ठितम् । तन्नः पातु वरं भवाब्धिशमनं श्री सिद्धचक्रं सदा, ८
For Private And Personal Use Only