________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णवर्णो मतो देवः, ॐकाराय नमो नमः. नमस्त्रिभुवनेशाय, रजोऽपोहाय भावतः। पञ्चदेवाय शुद्धाय, ॐकाराय नमो नमः. मायादये नमोऽन्ताय, प्रणवान्त मयाय च | बीजराजाय हे देव!, ॐकाराय नमो नमः. घनान्धकारनाशाय, चरते गगनेऽपि च। तालुरन्ध्रसमायाते, सप्रान्ताय नमोनमः. गर्जन्तं मुखरन्ध्रेण, ललाटान्तर संस्थितम् । पिधानं कर्णरन्ध्रेण, प्रणवं तं वयं नमः. श्वेते शान्तिकपुष्टयाख्याऽनवद्यादिकराय च | पीते लक्ष्मीकरायापि, ॐकाराय नमो नमः. रक्त वश्यकरायापि, कृष्णे शत्रुक्षयकृते। धूम्रवर्णे स्तम्भनाय, ॐकाराय नमो नमः. ब्रह्मा विष्णु शिवो देवो, गणेशो वासवस्तथा । सूर्यश्चन्द्रस्त्वमेवातः, ॐकाराय नमो नमः. न जपो न तपो दानं, न व्रतं संयमो न च । सर्वेषां मूलहेतुस्त्वं, ॐकाराय नमो नमः इति स्तोत्रं जपन् वाऽपि, पठन् विद्यामिमां परा।
७९
For Private And Personal Use Only