________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचषष्टि स्तोत्र आदा नमिजिनं नौमि, संभवं सुविधि तथा; धर्मनाथं महादेवं, शान्ति शान्तिकरं सदा अनंतं सुव्रतं भक्त्या, नमिनाथं जिनोत्तमम्, अजितं जितकंदर्प, चंद्रं चंद्रसमं प्रभुम् आदिनाथं तथा देवं, सुपार्श्व विमलं जिनम् मल्लिनाथं गुणोपेतं, धनुषा पंचविंशतिम् अरनाथं महावीरं, सुमतिं च जगद्गुरुम् श्री पद्मप्रभनामानं, वासुपूज्यं सुरैर्नतम् शीतलं शीतलं लोके, श्रेयांस श्रेयसे सदा; श्रीकुंथुनाथं वामेयं, श्रीअभिनंदनं विभुम् जिनानां नामभिर्लब्धः पंचषष्टिसमुद्भवः, यंत्रोऽयं राजते यत्र, तत्र सौख्यं निरंतरम् यस्मिन् गृहे महाभक्त्या, यंत्रोऽयं पूज्यते बुधैः; भूतप्रेत-पिशाचादि-भयस्तत्र न विद्यते सकलगुणनिधानं यंत्रमेनं विशुद्धं, हृदयकमलकोशे, धीमतां ध्येयरूपम्, जयतिलकगुरुश्री सूरिराजस्य शिष्यः वदति सुखनिदानं, मोक्षलक्ष्मीनिवासम्
७३
For Private And Personal Use Only