________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमस्सर्वसाधुभ्य ॐ ज्ञानेभ्यो नमो नमः; ॐ नमस्तत्त्वदृष्टिभ्य-श्चारित्रेभ्यस्तु ॐ नमः श्रेयसेऽस्तु श्रियेस्त्वेत, दर्हदाद्यष्टकं शुभम्; स्थानेष्वष्टसु विन्यस्तं, पृथग्बीजसमन्वितम् आद्यपदं शिखां रक्षेत्, परं रक्षेत्तु मस्तकम् तृतीयं रक्षेन्नेत्रे द्वे. तुर्य रक्षेच्च नासिकाम् पंचमं तु मुखं रक्षेत्, षष्ठं रक्षेच्च घंटिकाम; सप्तमं रक्षेन्नाभ्यन्तं, रक्षेत् पादान्त-मष्टमम् पूर्वं प्रणवतः सान्तः, सरेफो द्वित्रिपञ्चषान्; सप्ताष्टदशसूर्याकान्, श्रितो बिन्दुस्वरान्पृथक् पूज्यनामाक्षरा आद्याः, पंचैते ज्ञानदर्शने; चारित्रेभ्यो नमो मध्ये, ह्रीं सान्तस्समलंकृतः ॐ ह्रां ह्रीं हुँ हूँ हें हैं ह्रौं हँ:, ॐ असिआउसा ज्ञानदर्शनचारित्रेभ्यो ह्रीं नमः जम्बूवृक्षधरो द्वीपः, क्षारोदधिसमावृतः अर्हदाद्यष्टकैरष्ट, काष्ठाधिष्ठैरलंकृतः तन्मध्ये संगतो मेरुः, कूटलक्षैरलंकृतः उच्चैरूच्चैस्तरस्तार-तारामंडलमण्डितः
For Private And Personal Use Only