________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरंजनः ॐकाराकृतिरव्यक्तो, व्यक्तरूपस्रयीमयः; ब्रह्मद्वयप्रकाशात्मा, निर्भयः परमाक्षरं दिव्यतेजोमयः शान्तः, परमामृतमयोऽच्युतः; आद्योऽनाद्यः परेशानः, परमेष्टी परस्पुमान् शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः; व्योमाकारस्वरूपश्च, लोकाऽलोकावभासकः ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः: मनःसाध्यो मनोध्येयो, मनोदृश्य परापर सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः; भगवान् सर्वतत्त्वेशः, शिवश्रीसौख्यदायकः इति श्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः, दिव्यमष्टोत्तरं नाम-शतमत्र प्रकीर्तितम् पवित्रं परमं ध्येयं, परमानन्ददायकम्। भुक्तिमुक्तिप्रदं नित्यं, पठतां मङ्गलप्रदम् श्रीमत्परमकल्याण-सिद्धिदः श्रेयसेऽस्तु वः पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः धरणेन्द्र-फणच्छत्रा-लंकृतो वः श्रियं प्रभुः;
For Private And Personal Use Only