________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यानां विपणिस्तमोदिनमणिः, कामेभकुम्भश्रृणिः मोक्षेनिस्सरणिः सुरेन्द्रकरणी, ज्योति प्रभासारणिः । दाने देवमणिर्नतोत्तमजनश्रेणिः कृपासारिणि, विश्वानंदसुधाघृणिर्भवभिदे, श्रीपार्श्वचिन्तामणिः श्री चिंतामणिपार्श्वविश्वजनतासंजीवनस्त्वं मया, दृष्टस्तात ! ततः श्रियः समभवन्-नाशक्रमाचक्रिणम् मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्ध मनोवाञ्छितम्, दुर्दैवं दुरितं च दुर्गतिभयं, कष्टं प्रणष्टं मम यस्य प्रौढतमप्रतापतपनः, प्रोद्दामधामा जगज - जंघाला कलिकालकेलिदलनो, मोहान्धविध्वंसकः । नित्योद् द्योतपदं समस्तकमलाकेलिगृहं राजते, स श्रीपार्श्वजिनो जने हित कृते चिंतामणिः पातु माम् ५ विश्वव्यापितमो हिनस्ति तरणि-र्बालोऽपि कल्पांकुशो, दारिद्रयाणि गजावलिं हरिशिशुः काष्टानि वढेकणः । पीयूषस्य लवोऽपि रोगनि यद्वत् तथा ते विभो, मूर्तिः स्फूर्तिमती ती त्रिजगत्ति कष्टानि हर्तुं क्षमा ६ श्रीचिंतामणिमंत्रमोंकृतियुतं, ह्रींकारसाराश्रितं, श्रीमर्ह नमिऊणपासकलितं त्रैलोक्यवश्यावहम्,
४४
For Private And Personal Use Only