________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सहिताः नित्यं चामोद-प्रमोद-कारिणः अस्मिंश्च भूमण्डल आयतन-निवासि-साधु-साध्वी-श्रावक-श्राविकाणां रोगोपसर्ग व्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपशमनाय शान्तिर्भवतु. ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-मांगल्योत्सवाः, सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि, शत्रवः पराङ्मुखा भवन्तु स्वाहा. श्रीमते शान्ति-नाथाय, नमः शान्ति-विधायिने; त्रैलोक्यस्यामराधीश-मुकुटाभ्यर्चितांघ्रये. शान्तिः शान्तिकरः श्रीमान्, शान्तिं दिशतु मे गुरु; शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे. उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुर्निमित्तादि; संपादित-हित-संपन्नाम-ग्रहणं जयति शान्तेः. श्रीसंघजगज्जनपदराजाधिपराजसन्निवेशानाम: गोष्टिकपुरमुख्याणां, व्याहरणैर्व्याहरेच्छान्तिम्. श्री-श्रमण-संघस्य शान्तिर्भवतु. श्री-जनपदानां शान्तिर्भवतु. श्री-राजाधिपानां शान्तिर्भवतु. श्री-राजसन्निवेशानां शान्तिर्भवतु.
३९
For Private And Personal Use Only