________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्वेषयन्ति हृदयाम्बुज-कोश-देशे; पूतस्य निर्मल-रुचेर्यदि वा किमन्यदक्षस्य संभवि पदं ननु कर्णिकाया? ध्यानाज्जिनेश! भवतो भविनः क्षणेन, देहं विहाय परमात्म-दशां व्रजन्ति; तीव्रानलादुपल-भावमपास्य लोके, चामीकरत्वमचिरादिव धातु-भेदाः, अंतः सदैव जिन! यस्य विभाव्यसे त्वं, भव्यैः कथं तदपि नाशयसे शरीरम्?; एतत्स्वरूपमथ मध्य-विवर्त्तिनो हि, यद्विग्रहं प्रशमयन्ति महानुभावाः; आत्मा मनीषिभिरयं त्वदभेद-बुद्ध्या; ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः, पानीयमप्यमृतमित्यनुचिन्त्यमानं, किं नाम नो विष-विकारमपाकरोति? त्वामेव वीत-तमसं परवादिनोऽपि, नूनं विभो! हरि-हरादि-धिया प्रपन्नाः; किं काच कामलिभिरीश! सितोऽपि शंखो,
३०
For Private And Personal Use Only