________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नान्या सुतं त्वदुपमं जननी प्रसूता: सर्वा दिशो दधति भानि सहस्ररश्मि, प्राच्येव दिग्जनयति स्फुरदंशुजालम्. त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात्; त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं, नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः . त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं, ब्रह्माणमीश्वरमनन्तमनंगकेतुम्;
योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति संतः बुद्धस्त्वमेव विबुधार्चित- बुद्धिबोधात्, त्वं शंकरोऽसि भुवन-त्रय - शंकरत्वात्, धाताऽसि धीर ! शिवमार्ग-विधेर्विधानात्, व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि. तुभ्यं नमस्त्रिभुवनार्ति-हराय नाथ !, तुभ्यं नमः क्षितितलामल-भूषणाय !: तुभ्यं नमस्त्रिजगतः परमेश्वराय ! ;
२२
For Private And Personal Use Only
२२
२३
२४
२५