________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम् ७. शनैश्चरपूजा-श्री-सुव्रतजिनेन्द्रस्य, नाम्ना सूर्यागसंभव!; प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम् ८. राहुपूजा-श्रीनेमिनाथतीर्थेश, नाम्ना त्वं सिंहिकासुत !; प्रसन्नो भव शान्तिं.च रक्षां कुरु जयस्त्रियम् १ ९. केतुपूजा-राहोः सप्तमराशिस्थ, कारणे दृश्यतेऽम्बरे; श्री मल्लीपार्श्वयो र्नाम्ना, केतो ! शान्तिं श्रियं कुरु १ इति भणित्वा स्वस्ववर्ण कुसुमांजलि प्रक्षेपेण जिनग्रहाणां पूजा कार्या, तेन सर्वपीडायाः शान्तिर्भवति. अथवा सर्वेषां ग्रहाणामेकदा पीडायामयं विधिः नवकोष्ठकमालेख्य, मंडलं च तुरस्रकम्, ग्रहास्तत्र प्रतिष्ठाप्याः वक्ष्यमाणः क्रमेणतु मध्ये हि भास्कर:स्थाप्यः, पूर्वदक्षिणतः शशी; दक्षिणस्यां धरासूनुर्बुधः पूर्वोत्तरेण च उत्तरस्यां सुराचार्यः, पूर्वस्यां भृगुनंदनः पश्चिमायां शनिः, स्थाप्यो राहुदक्षिणपश्चिमे पश्चिमोत्तरतः केतुरिति स्थाप्याः क्रमाद् ग्रहाः
१२२
For Private And Personal Use Only