________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विततकेतकपत्रविलोचने! विहितसंसृतिदुष्कृतमोचने!; धवलपक्षविहङ्गम् लाञ्छिते; जय सरस्वति ! पूरितवाञ्छिते! भवदनुग्रहलेशतरङ्गिता-स्तदुचितं प्रवदन्ति विपश्चितः; नृपसभासु यतः कमलाबला, कुचकलाललनानिवितन्वते 6 गतधना अपि हि त्वदनुग्रहात्. कलितकोमलवाक्यसुधोर्मयः; चकितबालकुरङ्गविलोचना, जनमनांसि हरन्तितरां नराः७ करसरोरुहखेलनचञ्चला, तव विभाति वराजपमालिका; श्रुतपयोनिधिमध्यविकस्वरोजज्वलतरङ्गकलाग्रहंसाग्रहा 8 द्विरदकेसरिमारिभुजङ्गमा-सहनतस्करराजरुजां भयम्; तव गुणावलिगानतरङ्गिणां, न भविनां भवति श्रुतदेवते!९ ॐ ह्रीं क्लीं ब्ली ततः श्रीं तदनु हस कल ह्रीं अथो ऐं नमोऽन्ते, लक्षं साक्षाजपेद्यः करसमविधिना सत्तपा ब्रह्माचरी; निर्यान्ती चन्द्रबिम्बात्कलयतिमनसा त्वां जगच्चन्द्रिकाभां, सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन 108 For Private And Personal Use Only