________________
द्वितीयः सर्गः
प्राप्तयेति तद्गुणालङ्कारः, 'तद्गुणः स्वगुणत्या गादन्योत्कृष्टगुणाहुतिरि'ति लक्षणात् । पताकया रसनायमानयेति भावः, सुधाकरं बहुधा लिलिहुः आस्वादयामासुरित्यर्थः । अह्नि सन्तप्तानिशि शीतोपचारं कुर्वन्तीति भावः। अत्र गृहाणां सन्तापनिमित्तसुधाकरलेहनात्मकशीतोपचार उत्प्रेक्ष्यते। सा चोक्ततद्गुणोत्थेति सङ्करः, व्यञ्जकाप्रयोगाद्गम्या ॥ ९९ ॥
अन्वयः-माणिक्यमयाः यदालयाः दिनं समीयुषा अर्केण उत्तषः निशि स्वरुचा अरुणया पताकया सुधाकरं बहुधा लिलिहः ।
हिन्दी--माणिक्य रत्नों से बने जिस (नगरी) के गृह समग्र दिन निकटागत सूर्य के कारण उद्दाम तृषा (प्यास ) से आकुल हो रात में अपनी कांति से अरुण हुई पताका रूपा जिह्वा से अमृतनिधि चंद्र को अनेक प्रकार से चाहते रहते हैं।
टिप्पणी-कांति का आशय है कि नगरी में सूर्य-चंद्र को छूनेवाले अत्युच्च आवास हैं । मल्लिनाथ के अनुसार यहाँ तृषानिवारणार्थ सुधाकर-लेहनात्मक शीतोपचार की 'उत्प्रेक्षा' (गम्या) है, जो 'तद्गुण' से उत्थापित है, अतः दोनों का संकर है, विद्याधर के अनुसार समासोक्ति-अतिशयोक्ति-तद्गुण-उदात्त अलंकारों का संकर है ॥ ९९ ॥
लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् । श्रितमर्ककरैः पिपासु यन्नृपसद्मामलपद्मरागजम् ॥१०॥
जीवातु-अथानयंव भङ्गया राजभवनं वर्णयति-लिलिह इति । अमलपद्मरागजं यस्यां नगर्यां नृपसम राजभवनम् अर्ककरः श्रियमतिसामी. प्यादभिव्याप्तम् । श्रयतेः कर्मणि क्तः, शृणातेः पक्वार्थादिति केचित् । तदा ह्रस्व श्चिन्त्यः, प्रकृत्यन्तरं मृग्यमित्यास्तां तत् । अत एव पिपासु तृषितं सत् पिबतेः सन्नन्तादुप्रत्ययः । स्वकीया रुग् यस्याः तया स्वरुचा तद्रूषितयेत्यर्थः । अत एव जिह्वा निभया पताकया सुधाकरं लिलिहे आस्वादयामास । लिहेः कर्त्तरि लिट् । त्वरितत्वादात्मनेपदम् अलङ्कारश्च पूर्ववत्, जिह्वा निभयेत्युपमा करश्न विशेषः ॥१०॥ ६ नं० द्वि०