________________
द्वितीयः सर्गः
७३
जीवात-रुचय इति । यत्र नगर्यामनुसायं प्रतिसायं वीप्सायामव्ययीभावः । विलेपनापणेषु सुगन्धद्रव्यनिपद्यासु कश्मीरजानि कुङ्कुमान्येव पण्यानि पणनीयद्रव्याणि तेषां वीथयः श्रेणयः अस्तमितस्यास्तङ्गतस्य भास्वतः सम्बधिन्यः स्खलिताः अस्तमयक्षोभात् च्युताः अतएव निरालयाः निराश्रयाः रुचयः प्रभाः अभुः खलु. कथञ्चित्प्रच्युताः सायन्तनार्कत्विष इव भान्ति स्मेत्यर्थः । कुङ्कुमराशीनां तदा तत्सावादियमुत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । भातुर्लुङि झेर्जुसादेशः ।। ९० ॥
अन्वयः-यत्र अनुसायं विलेपनापणकश्मीरजपण्यवीथया अस्तम् इतस्य भास्वतः स्खलिताः निरालयाः रुचयः अभुः किल ।
हिन्दी-जिस नगरी में प्रत्येक संन्या को सुगन्ध-सामग्री के हाट में केसरविक्रय की गलियां अस्ताचल को जाते सूर्य से च्युत हुई ( अतएव ) निराधार कान्ति श्रेणियाँ जैसी आमासित होती थीं।
टिप्पणी--केसर की गलियों के साम्य के आधार पर सूर्यरुचियों से उनकी तुलना की गयी। यहाँ मल्लिनाथ ने गम्योत्प्रेक्षा मानी है, विद्याधर ने विशेषालंकार भी, रुद्रट के अनुसार जिसका लक्षण है-किञ्चिदवश्याधेयं यस्मिन्नवधीयते निराधारम् ताहगुपलभ्यमानं विज्ञेयोऽसौ विशेषोऽतः॥ चंद्रकलाकार उत्प्रेक्षा विशेष का अंगांगिभाव संकर मानते हैं ।। ९०॥
विततं वणिजापणेऽखिलं पणितं यत्र जनेन वीक्ष्यते । मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः ॥९१ ।।
जीवातु-वततमिति । यत्र नगीं वणिजा वणिग्जनेन पणितुं व्यवहतुं. मापणे पण्यवीथ्यां विततं प्रसारितमखिलं जगत्यां लोके स्थितं वस्तु पदार्थजातं पुरा पूर्व हरे विष्णोरुदरे मृकण्डुसूनुना मुनिना मार्कण्डेयेनेव जनेन लोकेन वीक्ष्यते विष्णूदरमिव समस्तवस्त्वाकरोऽयमवभासत इत्यर्थः । पुरा किल मार्कण्डेयो हरेरुदरं प्रविश्य विश्व तत्राद्राक्षीदिति कथयन्ति ।। ९१ ॥
अन्वयः-यत्र वणिजा पणितुम् आपणे विततम् अखिलं जगतीवस्तु पुरा हरेः उदरे मृकण्डुसूनुना मुनिना इव जनेन वीक्ष्यते ।