________________
४८
नैषधमहाकाव्यम् __ जीवातु-विषम इति । विपमः प्रतिकूलः कालकल दिग्भवः यमदिग्भवः प्राणहर इति भावः, पवनो दक्षिणमारुतः तद्विरहानलवता दमयन्तीविरहाग्निसमिधा तद्दाह्य नेत्यर्थः । मया मलये मलयाचले या अहिमण्डली सर्पसङ्घः तस्याः विषफूत्कारमय ऊहितस्तद्रूप इति तकित इत्यर्थः । लोके च 'अग्निरेघांसि फूत्कारवातेध्मायत' इति भावः । वतेति खेदे । विरहानलघसेतिरूपकोत्थापि. तेयं दक्षिणपवनस्य मलयाहिमण्डली फूत्कारत्वोत्प्रक्षेति संकरः ॥ ५७ ॥
अन्वयः-कालकलत्रदिग्भवः विषमः पवनः तद्विरहानलंघसा मग मलया हिमण्डली विषफूत्कारमयः ऊहित। बत !
हिन्दी-खेद कि यमराज की भार्यारूपा दक्षिण दिशा में उत्पन्न दुःसह पवन को उस ( दमयंती) के विरहानल के ईंधन मैंने मलयाचल की सपं मण्डली के विषभरे फूटकार-सदृश मानने की क्लिष्ट कल्पना की।
टिप्पणी-मलय का शीतल, मद, सुगन्ध समीर दमयंती को वियोगाग्नि में दग्ध होते नल को मलय-चन्दन-दृक्षों पर लिपटे नागों का फूत्कार-सदृश प्रतीत होता था । मल्लिनाथ के अनुसार रूपकोत्थापिता उत्प्रेक्षा होने से संकर, विद्याधर की दृष्टि में कायलिंग और रूपक अलंकार और पदार्थ में वाक्याथं प्रतिपादन से ओज गुण ।। ५७ ॥
प्रतिमासमसौ निशाकरः खग ! सङ्गच्छति यहिनाधिपम् । किमु तीव्रतरस्ततः करैर्मम दाहाय स धैर्यतस्करैः ? ॥ ५८॥ जीवात--प्रतिमासमिति । असौ निशा करो मासि मासि प्रतिमासम्प्रतिदर्शमित्यर्थः । वीप्सायामव्ययीभावः । दिनाधिपं सूर्य सङ्गच्छति प्राप्नोतीति यत्ततः प्राप्त', स निशाकरः तीव्रतरैरत एव धैर्यतस्करैर्मम धैर्यहारिभिः करैः सौरैः तत आनीतैः मम दाहाय सङ्गच्छतीत्यनुषङ्गः, किमुशब्द उत्प्रेक्षायाम् । अत्र सङ्गमनस्य दाहार्थत्वोत्प्रेक्षणात् फलोत्प्रेक्षा ॥ ५८ ॥
अन्वयः-खग, असौ निशाकरः प्रतिमासं यत् दिनाधिपं सङ्गच्छति किमु ततः सः तीव्रतरः धयंतस्करैः करः मम दाहाय?
हिन्दी-हे आकशचारी ( हंस ), यह निशाकर ( चंद्र ) प्रत्येक महीने