________________
३८
नैषधमहाकाव्यम्
जीवातु--ततः किमत आह-त्वयीत्यादि । हे वीर ! दमयन्त्याः किलकिञ्चितम्, 'क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितमि'त्युक्तलक्षणलक्षितशृङ्गारचेष्टितं त्वयि परन्त्वय्येव विराजते किल शोभते खलु । तथाहि-मणिहारावलेमुक्ताहारपङ्क्तेः रामणीयकं रमणीयत्वं 'योपाधाद् गुरुपोत्तमाद् वु' । तरुणीस्तन एव दीप्यते, नान्यत्रेत्यर्थः । स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेणेति प्रायग्रहणादेकवचनप्रयोगाः। अत्र हारकिलकिञ्चितयोरुपमानोपमेययो
क्यद्वये बिम्बप्रतिबिम्बतया स्तननृपयोः समानधर्मत्वोक्तेदृष्टान्तालङ्कारः, लक्षणन्तूक्तम् ॥ ४४ ॥ __ अन्वयः--वीर, दमयन्ती किल किञ्चितं परं त्वयि विराजते किल, मणिहारावलिरामणीयकं तरुणीस्तने एव दीप्यते ।
हिन्दी-हे वार, दमयन्ती का किलकिश्चित ( शृंगार चेष्टा ) केवल तुझ पर विशेषतः शोमा पायेगा, मणिमाल की रमणीयता तरुणी के कुचों पर ही दीपती है।
टिप्पणी-माव यह है कि नल और दमयन्ती की रूप-शोमा परस्पर प्रयुक्त ही सुशोभित और सार्थक होगी। प्रिय-संग होने पर मंद-हास्य, अश्रुरहित रुदन, हंसी, भय, क्रोध, श्रम आदि के संमिश्रण से जो तरुणियों की श्रृङ्गारचेष्टाएँ होती हैं, वे 'किलकिंचित' हैं-'स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् साङ्कर्य किलकिञ्चितम भीष्टतमसङ्गमादिजाद्धर्षात्' ( साहित्यदर्पण ३।११० )। मल्लिनाथ के अनुसार दृष्टांत और विद्याधर के अनुसार प्रतिवस्तूपमा ॥ ४४ ।।
तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः। इयमृद्धधना वृथाऽवनी, स्ववनी सम्प्रवदत्पिकापि का ? ॥ ४५ ॥
जीवातु--तवेति । हे वीर ! तवेदं रूपं सौन्दर्य तया दमयन्त्या विना अवकेशिनो वन्ध्यवृक्षस्य 'वन्ध्योऽफलोऽवकेशी चे'त्यमरः । पुष्पमिव विफलं निरर्थकम्, ऋद्धधना सम्पूर्णवित्ता इयमवनी वृथा निरथिका। सम्प्रवदपिका कूजत्कोकिला स्ववनी निजोद्यानमपि 'टीप्' का तुच्छा निरथिकेत्यर्थः। तद्योगे तु सर्व सफलमिति भावः। "कि वितर्के परिप्रश्ने क्षेपे निन्दापराघयोरि'ति विश्वः । अत्र नलरूपावनीवनीनां दमयन्त्या विना रम्यतानिषेधाद्विनोक्तिरल