________________
नैषघमहाकाव्यम्
जीवातु - पृथ्विति । पृथु वर्त्तृलं च तस्याः नितम्बं करोतीति नितम्ब - कृन्नितम्वं कृतवान् विधिः ब्रह्मा मिहिरस्यन्दन शिल्पशिक्षया रविरथनिर्माणाभ्यासपाटवेन एककमेका कि 'एकादा किनिच्चासहाये' इति चकारात् कप्रत्ययः । तेन चक्रेण चरतीति तच्चारिणं मान्मथं रथं निर्मित्सति किमु ? सूर्यस्येव मन्मथस्यापि एकचक्रं रथं निर्मातुमिच्छति किमु ? इत्युत्प्रेक्षा । अन्यथा किमर्थमिदं नितम्बनिर्माणमिति भावः । मातेः सन्नन्ताल्लट् । 'सनिमीमे ' त्यादिना ईसादेशः, 'सस्यार्द्धधातुक' इति सकारस्य तकारः, 'अत्र लोपोsभ्यासस्ये' त्यभ्यासलोपः ।। ३६ ।।
३२
अन्वयः - पृथुवत्तु लतान्नितम्बकृत् विधिः किमु मिहिरस्यन्दन शिल्प शिक्षया एककचक्रचारिणं मान्मथं रथं निर्मित्सति ?
हिन्दी - ( दमयन्ती के ) विशाल और गोलाकार नितंब का निर्माता विधाता क्या सूर्य रथ के शिल्प के अभ्यास से एक ही चक्के पर चलनेवाला कामदेव का रथ बनाना चाहता है ?
टिप्पणी- दमयन्ती के वर्तुलाकार, विशाल नितंबस्थल को देखकर मदन प्रादुर्भाव हो जाता है, इस कारण कवि ने उसे 'मान्मथरथ' बताया । विधाता को सूर्यरथ के निर्माण का अभ्यास होने के कारण उसने शायद 'मान्मथरथ भी 'एकचक्रधारी' बनाना चाहा है । उत्प्रेक्षा ॥ ३६ ॥
तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् । तरुणीमपि जिष्णुरेव तां धनदापत्यतपः फलस्तनीम् ॥ ३७ ॥
जीवातु -- तरुमिति । सुन्दरी दमस्वसा परिणाहिना विपुलेन ऊरुयुगेन रम्भां रम्भां नाम तरु परन्तरुमेव 'न लोके' त्यादिना षष्ठीप्रतिषेधः । जिष्णुः किमु ? किन्तु घनदापत्यस्य नलकूबरस्य तपसः फलस्तनीं फलभूतकुचां तां रम्भान्नाम तरुणीमपि जिष्णुरेव । ' रम्भाकदल्यप्सरसोरि" ति विश्वः । रम्भे इव रम्भाया इव चोरू यस्याः सा इत्युभयथा रम्भोरुरित्यर्थः ॥ ३७ ॥
अन्वयः -- सुन्दरी परिणाहिना ऊरुयुगेन परं रम्भां तरु किमु घनदापत्यतपः फलस्तनीं तां तरुणीम् अपि जिष्णुः एव ।