________________
द्वितीयः सर्गः
टिप्पणी-पकड़ से छूटे पक्षी की क्रिया का स्वाभाविक वर्णन । स्वभावोक्ति ॥ २॥
अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमज्रिणा। स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ ३ ॥
जीवातु-अयमिति । अयं हंसः स्खलनक्षण एव मोचनानन्तरमेवेत्यर्थः । एकतमेनाघ्रिणा पक्षतेः पक्षमूलस्याधिमध्यं मध्ये ऊर्ध्वगामिनी जङ्घा यस्मिन् कर्मणि तद्यथा तथा कण्डूयनेन तत्तथा द्रुतं कण्डूयितमौलि: सत्वरं कर्षितचूडः सन् आलयं निजावासं शिश्रिये श्रितवान् ॥ ३॥
अन्वयः-अयं स्खलनक्षणे एव पक्षतेः अधिमध्योध्वंगजङ्घम् एकतमेन अज्रिणा द्रुतकण्डूयितमौलिः आलयं शिश्रिये ।
हिन्दी-वह हंस छूटते क्षण ही पंखों के मध्य से जंघा ऊर्ध्वगामिनी कर ( पक्ष मूल के बीच से ऊपर को जंघा करके ) एक पैर से जल्दी-जल्दी सिर खुजलाता हुआ अपने घोंसले में जा बैठा ।
टिप्पणी-यह भी पक्षिस्वभाव है। यहां भी स्वभावोक्ति अलंकार ॥३॥
स गरुद्वनदुर्गदुग्रहान् कटु कोटान् दशतः सतः कचित् । नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः ॥ ४ ॥
जीवातु-स इति । पण्डितः निपुणः स हंसः गरुतः पक्षा एव वनदुर्ग तत्र दुर्ग्रहान् ग्रहीतुमशक्यान् कटुतीक्ष्णान्दशतः दन्तैस्तुदतः क्वचित् कुत्रचिदेव सतः वर्तमानान् कीटान् क्षुद्रजन्तून् पटुचञ्चूपुटस्य समर्थत्रोटे: कोटया अग्रेण कुट्टनैः घुट्टनस्तनुरल्पा कण्डूर्यस्मिन् तनुकण्डु यथा तथा 'गोस्त्रियोरुपसर्जनस्येति' ह्रस्वः । नुनुदे निवारितवान् ‘स्वरितजित' इत्यात्मनेपदम् ॥४॥
अन्वयः--पण्डितः सः क्वचित् सतः गरुद्वनदुर्गदुर्ग्रहान् कटु दशतः कीटान् पटुचञ्चूपुटकोटिकुट्टनः तनुकण्डु नुनुदे ।
हिन्दी-उस चतुर पक्षी ने यत्र-तत्र स्थित पंख-रूप वन-दुर्ग ( अथवा पक्षसमूह रूप दुर्ग) में छिपे रहने से कठिनता से हाथ आने वाले पीडादायक