________________
११६
नैषधमहाकाव्यम् मुहर्तमानं भवनिन्दया दयासखाः सखायः स्रवदश्रवो मम । निवृत्तिमेष्यन्ति परं दुरुत्तरस्त्वयैव मातः ! सुतशोकसागरः ॥ १३६ ॥
जीवातु-अथ मातर शोचयति-मुहूर्तेति । हे मातः ! सखायः सुहृदो दयासखाः सदयाः भवनिन्दया संसारगहणेन मुहूर्त मात्रं क्षणमात्रं स्रवदश्रवो गलिताश्रव एव सन्तो निवृत्ति शोकोपरतिमेष्यन्ति, किन्तु त्वयैव सुतशोक एव सागरः परमत्यन्तः दुःखेनोत्तीर्य्यत इति दुरुत्तरो दुस्तरः तरतेः कृच्छ्रार्थे खल्प्रत्ययः ॥ १३६ ॥
अन्वयः-मम दयासखाः सखायः भवनिन्दया मुहूर्तमानं स्रवदश्रवः निवृत्तिम् एष्यन्ति, परं मातः त्वया सुतशोकहागरः दुस्तरः एव ।
हिन्दी-दयाल मेरे मित्र संसार की निन्दा करते मुहूतं भर आंसू गिरा शोक-निवृत्त हो लेंगे, पर हे मां, तुझ से पुत्र-शोक का समुद्र दुस्तर ही होगा, अर्थात् न तरा जा सकेगा।
टिप्पणी-मां के दुःख की संभावना दिखाकर करुणोद्बोधन करानेवाले. वचन । अनुप्रास रूपक अलंकार ॥१३६।।
मदर्थसन्देशमृणालमन्थरः प्रियः कियदूर इति त्वयोदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये ! स कीदृग्भविता तव क्षणः? ॥
जीवात-अथ भार्सामुद्दिश्य विलपति-मदर्थेत्यादिना । हे प्रिये ! मह्य-- मिमे मदर्थे 'अर्थेन सह नित्यसमासो विशेष्य लिङ्गता चेति वक्तव्यम्' तयोः सन्देशमृणालयोः वाचिकबिसयोः मन्थरस्तत्प्रेषणे विलम्बितप्रवृत्तिः प्रियः कियदूरे देशे वर्तत इति त्वया उदिते उक्ते पृष्टे सतीत्यर्थः । अथ प्रश्नानन्तरं रुदतः अनिष्टोच्चारणाशक्त्या अश्रूणि विमुञ्चतः पक्षिणः इतो गच्छतो गतान्विलोकयन्त्यास्तव स क्षणः स काल: कीडग्भविता भविष्यति ? वज्रपातप्राय इति भावः । कर्तरि लुट् ॥ १३७ ॥
अन्वयः-प्रिये, मदर्थसन्देशमृणालमन्थरः प्रियः कियद्रे-इति त्वया उदिते अथ रुदतः पक्षिणः विलोकयन्त्याः तव स क्षणः कीदृक् मविता ?
हिन्दी-हे प्रिये, मेरे निमित्त समाचार और कमलनाल भेजने-लाने