________________
प्रथमः सर्गः
७९
गमः । तं पराग पुरा पूर्व पुरारये पुरहराय स्मरेण मुक्तेषु शरेषु सङ्गतं संसक्तं तस्य पुरारेरने यद्भस्म तदिवामन्यत इति उत्प्रेक्षित वा नित्यर्थः । पुरा पुरारये ये मुक्तास्त एवैते पुरोवत्तिनः कुसुमेषव इत्यभिमानः, अन्यथेषां तदङ्गभस्मसङ्गोत्प्रेक्षानुत्थानादिति ।। ८७ ॥
अन्वयः--असौ कुमुमेषगर्भज वियोगिनाम् अन्धकरणं परागं पुरा स्मरेण 'पुरारये मुक्तेषु शरेषु सङ्गतं तदङ्ग-भस्म इव अमन्यत ।
हिन्दी-इसे ( नल को ) फूलों के भीतर का वियोगियों को अंधा बना देने वाला पराग प्राचीन काल में काम द्वारा शिव पर छोड़े गये कुसुम बाणों पर लग गयी शिव के अंग की भस्म के समान प्रतीत हुआ ।
टिप्पणी--आँखों में भस्म पड़ जाने पर दिखाई नहीं देता, कुसुमपराग मी उद्दीपक और वियोगियों को अंधा करदेनेवाला है। उत्प्रेक्षा और शब्दालंकार अनुप्रास ।।८।।
पिकाद्वने शृण्वति भृङ्गहङ्कृतैर्दशामुदञ्चत्करुणं वियोगिनाम् । अनास्थया सूनकरप्रसारिणीं ददर्श दूनः स्थलपद्मिनी नलः ॥ ८८ ।।
जीवातु-पिकादिति । वने उपवने श्रोतरि पिकाद्वक्तुः सकाशात् भृङ्गहुकृतवियोगिनां दशामलिहुङ्कारकृतां दुःखावस्था मित्यर्थः । उदश्चत्करुणं विकसवृक्षविशेषमुद्यत्कृपञ्च यथा तथा शृण्वति सति, 'करुणस्तु रसे वृक्षे कृपायां करुणा मते'ति विश्वः । अनास्थया श्रोतुमनिच्छया सूनं प्रसूनमेव करं प्रसारयतीति प्रसारिणी पुष्परूपहस्तविस्तारिणी तथोक्तामनिष्टकथां करेण वारयन्तीमिव स्थितामित्यर्थः । सूनकरेति प्रसारिणीमितिरूपकानुप्राणिता गम्योत्प्रेक्षेयम् । स्थलपद्मिनी नलो दूनः परितप्तः सन् दूङः कर्तरि क्तः, 'ल्वादिभ्यश्चे'ति निष्ठानत्वम् । ददर्श ।। ८८ ॥
अन्वयः-दूनः नल: पिकात् भृङ्गहुकृतः वियोगिनां दशाम् वने उदञ्चस्करुणं शृण्वति सूनकरप्रसारिणी स्थलपद्मिनीम् अनास्थया ददर्श ।
हिन्दी--संतप्त नल ने कोकिल और भौरों के गुंजार से विरहिजनों की