________________
६८
नैषधमहाकाव्यम्
अथ अनन्तरं क्रमेण तस्मिन् नले अवतीर्णदृक्पथे अतिक्रान्तदृष्टिविषये सति न्यवति निवृत्तं भावे लुङ् । यथा बन्धुभिः 'उदकान्तं प्रियं पान्थमनुव्रजेदि' त्यागमात्प्रवसन्तमनुव्रज्य निवर्त्यते तद्वदित्यर्थः ।। ७५ ।।
अन्वयः -- क्रमेण अवतीर्णदृक्पथे तस्मिन् अनुव्रजबन्धुसमाजबन्धुभिः पुरीकसां दृष्टिप्रकरः वनान्तपर्यन्तं सस्पृहम् उपेत्य न्यवति ।
हिन्दी -- धीरे-धीरे राजा के नेत्रों से अगोचर हो जाने पर अनुगमन करते बंधुजनों का बंधु -सदृश नगरवासियों का दृष्टि-समूह अभिलाष के साथ वनभूमि तक जाकर लौट पड़ा ।
टिप्पणी--- जब तक राजा दिखायी चाव से देखते रहे, जब आँख ओझल हो गया, वासियों की राजा के प्रति प्रीति का द्योतक है। कार । चतुर्थ चरण में उपमा ।। ७५ ।।
पड़ता रहा, तब तक नगरवासी
, - - यह कथन पुर
तभी लौटे, - अनुप्रास और सहोक्ति अलं
ततः प्रसूने च फले च मंजुले स सम्मुखीनाङ्गुलिना जनाधिपः । निवेद्यमानं वनपालपाणिना व्यलोकयत् काननरामणीयकम् ॥ ७६ ॥
जीवातु -- तत इति । ततः वनप्रवेशानन्तरं स जनाधिपो नलः मञ्जुले मनोज्ञे प्रसूने कुसुमे फले च विषये सम्मुखीना सन्दर्शिनी सम्मुखावस्थितवस्तुप्रकाशिकेति यावत् 'यथा मुख सम्मुखस्य दर्शन: ख' इति खप्रत्ययान्तो निपातः । तादृशी अङ्गुलिर्यस्य तेन वनपालपाणिना निवेद्यमानम् इदमिदमित्यङ्गुल्या पुष्पफलादिनिर्देशेन प्रदर्श्यमानमित्यर्थः । कानन रामणीयकं वनरामणीयकं 'योपधाद् गुरूपोत्तमाद् वुञ्' इति वुञ्प्रत्ययः । व्यलोकयत् अपश्यदिति स्वभावोक्तिः ।। ७६ ॥
अन्वयः -- ततः सः जनाधिपः मञ्जुले प्रसूने फले च सम्मुखीनाङ्गुलिना वनपालपाणिना निवेद्यमानं काननरामणीयकं च व्यलोकयत् ।
हिन्दी - तदनन्तर वह नरनाथ मनोहर फूल और फल तथा अंगुलि उठा कर वन- पालक के हाथ से सादर विज्ञापित वन की रमणीयता का अवलोकन करने लगा ।