________________
बाईस
कुंदकुंद-भारती इत्याद्यनेकसूरिष्वथ सुपदमुपेतेषु दीव्यतपस्याशास्त्राधारेषु पुण्यादजनि स जगतां कोण्डकुन्दो यतीन्द्रः। रजोभिरस्पृष्टमत्वमन्तर्बाह्योऽपि संव्यञ्जयितुं यतीशः। रजापदं भूमितलं विहाय चचार मध्ये चतुरङ्गुलं स:।। -- श्र. बे. शि. १०५ तदीयवंशाकरत: प्रसिद्धादभूतदोषा यतिरत्नमाला। बभौ यदन्तर्मणिवन्मुनीन्द्रस्स कुण्डकुन्दोदितचण्डदण्डः।। -- श्र. बे. शि. १०८ श्रीमूलसोऽजनि कुन्दकुन्दः सूरिर्महात्माखिलतत्त्ववेदी। सीमन्धरस्वामिपदप्रबन्दी पञ्चाह्वयो जैनमतप्रदीपः।। -- धर्मकीर्ति, हरिवंशपुराण कवित्वनलिनीग्रामनिबोधनसुधाघृणिम्। वन्द्यैर्वन्धमहं वन्दे कुन्दकुन्दाभिधं मुनिम्।। -- मु. विद्यानन्दि , सुदर्शनचरित श्रीमूलसोऽजनि नन्दिसङ्घस्तस्मिन् बलात्कारगणोऽतिरम्य:। तत्रापि सारस्वतनाम्नि गच्छे स्वच्छाशयोऽभूदिह पद्मनन्दी।। आचार्यकुन्दकुन्दाख्यो वक्रग्रीवो महामतिः। एलाचार्यो गृध्रपिच्छ इति तन्नाम पञ्चधा।। -- सा. इ. इन्स. न. १५२ कुन्दकुन्दमुनिं वन्दे चतुरङ्गुलचारणम्। कलिकाले कृतं येन वात्सल्यं सर्वजन्तुषु ।। -- सोमसेन पुराण सृष्टेः समयसारस्य कर्ता सूरिपदेश्वरः। श्रीमच्छ्रीकुन्दकुन्दाख्यस्तनोतु मतिमेदुराम्।। -- अजितब्रह्म, अजितपुराण सन्नन्दिसङ्घसुरवर्त्मदिवाकरोऽभूच्छ्रीकुन्दकुन्द इतिनाम मुनीश्वरोऽसौ। जीयात् स वै विहितशास्त्रसुधारसेन मिथ्याभुजङ्गगरलं जगतः प्रणष्टम्।।
-- मेधावी, धर्मसंग्रह श्रावकाचार आसाद्य धुसदां सहायमसमं गत्वा विदेहं जवादद्राक्षीत किल केवलेक्षणमिनं द्योतक्षमध्यक्षतः। स्वामी साम्यपदाधिरूढधिषण: श्रीनन्दिसंचश्रियो मान्यः सोऽस्तु शिवाय शान्तमनसां श्रीकुन्दकुन्दाभिधः।।
-- अमृतकीर्तिसूरि, जिनसहस्रनाम टीका श्रीमूलसोऽजनि नन्दिसङ्घस्तस्मिन् बलात्कारगणेऽतिरम्ये। तत्राभवत्पूर्वपदांशवेदी श्रीमाघनन्दी नरदेववन्द्यः।। पदे तदीये मुनिमान्यवृत्तौ जिनादिचन्द्रः समभूदतन्द्रः।
ततोऽभवत्पञ्चसुनामधामा श्रीपद्मनन्दी मुनिचक्रवर्ती।। -- नन्दिसंघ पट्टावली कुंदकुंदाचार्यकी नयव्यवस्था
वस्तुस्वरूपका अधिगम -- ज्ञान, प्रमाण और नयके द्वारा होता है। प्रमाण वह है जो पदार्थमें रहनेवाले परस्परविरोधी दो धर्मोको एकसाथ ग्रहण करता है और नय वह है जो पदार्थमें रहनेवाले परस्परविरोधी दो धर्मों में से एकको प्रमुख और