________________
( ४३ )
अङ्गुष्ठ इति । अगूं शरीरावयवं शिरामुखकण्ठलक्षणं वक्ष्यमाणं लातोति अगुल: हंसो जीवस्यात्र नाड्यां परिभ्रमात् अत एवाङ्गुष्ठाङ्गुलिमध्यस्थं क्षिप्रमाक्षेपमारणमिति वाग्भटे शारीरचतुर्थाध्याये । शिवोहस्ते वितस्तिरूपेण ऊद्धर्वीकृते शिवस्थानलाभात्, राजा राज्ञां वेन तिलककरणात् तन्निष्ठनखस्य महाराजत्वात् श्रूयते । चागमे सक्कस्स देविंदस्स देवरणो सोमे नामं महाराया इति भगवत्यामाश्रितस्य महाराजत्वं चतस्रोऽङ्गुल्यः प्रिया यस्य कार्ये ताभिः सङ्गमात्, भोगीति कामशास्त्रेऽङ्गुष्ठात्कामकलावृद्धः । अक्षीणमहानसादि-सिद्धियोगाद्गुणपतिर्विष्णुरङ्गुलीषु व्याप्तेर्यवमालात्रयधारित्वात् भेरुरुभय पार्श्वचन्द्रसूर्यस्थित्या अङ्गुल इति नाम्ना वितस्तिहस्तादिमानमूलत्वाच्च मेरुरपि सर्वक्षेत्रमानमूलमागम सिध्दं, तत एव ध्रुव राशित्रयं तत्रैव सूर्यः पुंस्त्रियोः पुरुषस्यैव प्राधान्येन दक्षिणनाडीयन्न चैवं दक्षिणाङ्गुष्ठे नखरूपचन्द्रवैयर्थ्यम् । हस्तस्य वामावाङ्गोभयात्मकत्वेन चन्द्रस्यापि योगात् ततोऽपि राजेति नामाप्यस्य यद्वामाशसीस्थाने चन्द्रसूर्ययो संगमात् । अक्षयोवटोऽत्र शकुनपक्षे भषणत्वेन यक्षाश्रयत्वात् अथवा प्रागुक्त त्रिवेणी स्थानात् शिवरूपाच्च ॥ ३ ॥
अङ्गुल्यः करशाखास्वारङ्गुर्थः करपल्लवाः । त्रिपुराकरजांवाश्च मायाः कामदुघा मता ॥ ४ ॥
अङ्गुष्ठ इति । अगत्यङ्गुरिः लत्वेङ्गुलिः । त्रीणि पुराणि पर्वरूपाणि यासुत्रिपुरा: करजानां नखानां अम्बा इव करजाम्बाः स्त्रीणां कामविलासेगू लीनां मोटनम् | यदुक्तं
वेण्याः संयमनं विलासगमनं कर्णादिकंड्यनं निश्वासोङ्गविदर्शनं स्मरकथा हस्ताङ्गुलिस्फोटनम् । दृष्ट्वा बालकचुम्बनं सुहसनं गाढावनिष्ठीवनं भावैविंशतिमिङ्गितानि कुरुते सौख्यानि कामाकुला ॥ १ ॥
१ विष्णोः सूर्येन्दुद्रयं नेत्ररूपं तेनात्र चन्द्रीप्यावश्यकः प्राधान्येतरतातु शुक्लकृष्णपक्षयो रिव ज्ञेया ।
"Aho Shrutgyanam"