________________
( ४१ )
श्रीपार्श्व इति । भोगप्रधानत्वाद्वामे तद्ध्यानं भोगप्राधान्यं भोगिराजसेव्यत्वात् श्रीनाभेय इति । योगप्राधान्याद्दक्षिणे ब्रह्माधिक्यव्यञ्जके करे श्री ऋषभप्रभुध्यानम् ॥ १८ ॥
निमित्तानां सर्व सम्मतत्त्वाद्दर्शनान्तरीयाणामञ्जलिविषयं ध्यानमाहविष्णुदेवोऽत्रवामस्थः केकेिपिच्छकिरीटभृत् ।
नाथः शिवोदक्षिणस्थस्तस्य शाखाजटाः घटाः ॥ १९ ॥ विष्णुरिति । शिवो महाव्रती योगीश्वरस्तस्य जटास्तेजो रूपाः ॥ १९ ॥ अथ हस्तद्वयवक्षाया प्रागेवढीकृताया निश्चये ध्यानमाह-तयोर्योगे यथकारः परमं मङ्गलं भवेत् । तथाञ्जलिविधानं च सर्वदा सर्वमङ्गलम् ॥ २० ॥
तयोरिति । श्रीपार्थोऽत्र सङ्क्षेश्वरनामाविष्णुस्थापितत्वात् अकारवाच्यः, अकारवाच्येन विष्णुना स्थापितः स्वयमकारवाच्य एव कर्तरि पञ्चैत्यादि सूत्रेषु तथा रूपात् । यद्वा-अश्वसेनिरिति नाम्म एकदेशे' आ इति ग्राह्यं उसम इति नामैकदेशे उ इति ततस्तयोः पार्श्व ऋषभयोर्योगे ॐ इति अर्द्ध मागधभाषाया अर्द्ध संस्कृतस्येति मिश्रभाषा ग्राहकम् | स्वेष्टदेवत्वात् एवं व्याख्या । न चेत्, अः अर्हन् उः शम्भुः सिद्धः परमेश्वरः तयोर्योगे ओ३ मिति परमं मङ्गलं तथा अञ्जलिकरणं मङ्गलं नत्वेकहस्तस्तत एव सूर्याद्यर्धदानेञ्जलिकरणं चैत्यवन्दनायां स्वमतेऽप्यञ्जलिमुद्रा प्रसिद्धा एतेन हस्तद्वयेऽपिफलं वाच्यम् ॥ २० ॥
अथ पृच्छा विषये मन्त्रमप्युपयोगाय तदाह -
हरहुंहः सरसुंसः क्रमतः पञ्चाङ्गुलीषु राजमुखात् । न्यासो यन्त्रो हस्ते स्थाप्यं तत् सर्वतोभद्रम् ॥ २१ ॥ ओ३मिति । स्पर्शधिकारविस्तृतमेतत्, स्वागमप्रसिद्धमङ्गुष्ठादन्यथा सर्वतो भद्रचक्रं नरपतिजयचर्या ग्रन्थोक्तं विचारणीयम् ।
१ चित्रादाविव तदृशा आयात स्थानविा वर्णविधाविति न्यासाच्च ।
-
---
"Aho Shrutgyanam"