________________
(२१३) संपुन्न इति सम्पूर्णे शंखे मत्स्थ पझे भद्रासने यवेकुम्भे प्राप्नोति विपुलां ऋद्धिं धुरुषः अचिरेण । अत्रचिरेणेति भणनादेव कालभावात्, कालेनेत्युक्त्या, अतिशीघ्रत्वव्यञ्जनम् । सम्पूर्ण इति वचनाल्लक्षणपूर्णत्वे फलेपि ताप्यम् ॥ २०० ॥ तदेव पाठेनाह
अव्यक्तैश्चतयाछिन्नैः भिन्नैर्विद्धैश्चरुक्षकैः ।
लक्षणैः कलहीनत्वं धनहानिर्विनिर्दिशेत् ॥ २०१ ॥ • अव्यक्तैश्चेति । अप्रकटैस्तथा छिन्नभिन्नैर्विद्वैरुक्षैः कान्तिरहितैः फलहीनत्वं तथा धनहानिंच वदेत् ॥२०॥
एकलक्षणेऽपि अनेकफलमाहएकमप्युत्तमं स्पष्टं लक्षणं वेधवर्जितम । सर्वाङ्गीणां श्रियं दत्ते सन्तति बहुमङ्गलम् ॥ २०२ ॥ एकमिति । व्यक्तार्थम् ॥ २०२ ॥
॥ इतिलक्षणद्वात्रिंशिका विमर्शः ॥
अथ बंदिरेखा विमर्शः । अङ्गष्ठ मध्ये केदारे सुखं राज्यं श्रियोऽथवा ।
केदार संगतारेखा स्तावत्बन्धनकारणम् ॥ २०३॥ ___ अङ्गष्ठेति । केदारः क्षेत्र तरेखा सामोन्योक्तावपि गृहक्षेत्रं च वाटिकेति प्रागक्तेर्वामहस्ते राज्ञो मध्यपर्वणि यदि स्यात्तदा राज्य स्यात्क्षेत्रफलभोगात् तत्र पुनर्वेधकारिण्यो रेखायावत्यो मिलिताः स्युस्तावद्वारबन्धनम् । अत्र सुश्रुतशरीराध्याये यद्यप्यङ्गष्ठे पर्वद्वयमेव शेषागलीषु सन्धित्रयमुक्तं तथापि अंगुठसयमूले, तथा अंगुठस्सयममे । तथा अगुलि
अंगुठोवरि इति प्रकरणे भागत्रय कथनान्न तथा वचः ॥ २०३ ॥ एनमेवार्थ सम्मत्याह
अंगुठस्य वयमझेकेयारं जइह विजपुरिसहस्स । सो हीइ सुखभागी पावइ पुणखतिउरज्जं ॥ २०४॥
"Aho Shrutgyanam"