________________
(१९०) यावन्तः पल्लवा राज्ञोऽभिमुखास्ते पियंवदा ।
भ्रातरः स्वजनाः कार्ये पुंस साहाय्यकारिणः ।। ११३॥ '. यावन्त इति । राज्ञोऽङ्गुष्ठस्य सम्मुखा यावन्तः पल्लवास्तावन्तो भागहरिणोप्यस्य पुंसोऽनुकूलाः क्वचिद्विवादे साधक भाजः ॥ ११३ ॥
प्रकरण कारस्त्वाह---
मणिघंधाउपयहा पएसिणी जाव अइ गया रेहा। .
बहुबंधुसमाइन्नं कुलवंसनिहिसे तस्य ॥ ११४ ॥ मणीति । मणिबन्धात् प्रवृत्ता प्रदेशिनी यावत् , अतिगता रेखा बहूबन्धु • समाकीर्ण कुलवंशं निर्दिशत्तस्य ।। ११४ ।।
दीहाई जाण दह कुलसमंडहिये मंडहियाए ।
विनाए जाणविन्नं जाणसुमिन्नं च भिन्नए ॥ ११५ ॥ . दीहाइ इति । दीर्घायां जानीहि । दीर्घ-कुलवंश मृताधिकं मृताधिकया छिन्नया जानीहि छिन्न जानीहि मिन्नं च भिन्नया, अत्र-उद्धर्व रेखाभेद व्याख्यानेऽपि गोत्ररेखास्वरूपमेव लभ्यते परं वस्तुतः कुलरेखातन्मतेऽपि पृथगेव इदं सूत्रं तर्जनी प्राप्तोरखाधरस्य पुंसः कुटुम्ब पोषकता ज्ञापकम् । • मृतं-अधिकं यस्मिन् सकुलवंशो मृताधिकः स्वल्पजीवज्जनः । मृताधिकया, अतितनतर लेखया छेदवती मध्ये न दृश्याः भेदवती मुखे । शाखाद्वयत्रयवती। कुलं पैतृकं जातिर्मातृकी कुलस्य वंशः सन्तति परंपरां कुलवंशस्तं छेदवत्या रेखया छिन्नं भेदवत्या रेखाया भिन्नं परस्परविरुद्धं जानीहि ॥ १५ ॥
अथ ऊर्ध्वरेखा भेदानाह-- मणिबन्धादुद्धरेखा यात्यङ्गुष्ठादि सम्मुखी ।
असौपञ्चविधा राजा श्रयिणी राज्य सौख्यदा ॥ ११६ ॥ मणिबन्धादिति ॥ १६ ॥
नृपोनृपतिमित्रं वा प्राप्ता.चेत्तर्जनीमसौ ।
ज्येष्ठा प्राप्तौ तथाचार्य ख्यातिमान् सैन्यनायकः ॥११७॥ नृप इति ॥ १७ ॥
"Aho Shrutgyanam"