________________
(१७०) गोत्ररेखा १ धातुरुपागोत्रे धातूतामेवानुबन्धात्, अत एव न गोत्र चक्राराभवः, भगवती वीरेऽवतीर्णे ॥ ज्ञातकुले धनादिसाकल्येन भगवत्पुण्यात् प्रवृद्धिः, प्रकृतित्वात्, मूलं वस्त्ररुतकर्पाससिद्धार्थतुबरादिक्रयाणिकं तच्चमालोकः तेनैव पाश्चात्य चायुबलात्फलपुष्पादिरसाबाहुल्य वार्षिकनवधनोत्पतिश्च युक्ता तेनात्र धनरेखापि स्वर्गे तेन देवाघभिषेकसमयेऽs भियेगिक सुरामर्त्यलोका तुबरादि समानयन्ति । असुरादिदेवायो पेक्षया नारकापेक्षया मालोकाज्जीवाधिक्यात्, पातालं जीव: वामहस्ते जीवो १ मूलं २ धातव । ३ श्चति त्रयं ज्ञेयम् । समेस्त्रीविषमे पुमान् इति प्रभशास्त्रात् युग्मे विद्यादेतदेव प्रतीयमिति षट् पाञ्चशिका ज्योतिः शास्त्रवचनाच्च ॥ ४५ ॥
ब्रह्माविष्णुः शिवश्चासां कामतस्त्वधिनायकाः ।
चदुर्दिक्षुतलस्याध शकाद्या अधिपादिशाम् ॥ ४६ ॥ ब्रह्मेति । गोत्ररेखाया अघिष्टाता ब्रह्मासृष्टि धर्मात्, मातृरेखायाः प्रभुर्विष्णुः प्रतिपालनात् । आयुरेखाधिपः शिवः शिवस्य स्थानं श्मशानभित्युक्तेः हस्त तलस्य चतुर्दिक्षु इन्द्र १ यम २ वरुण ३ वैश्रमणाः ॥ ४ ॥ स्वामिनः अघिष्टातृ साधादत्रोपादानं प्रयोजनं तु अश्विन्यादि चन्द्रचक्रे यत्र यत्र चन्द्रो हस्ते क्षणसमयेः प्राप्तस्तद्दिशोऽधिपतिलोकाधिष्टितत्वेन हस्तदर्शयितुः स्वभावपरिज्ञानं तत्तदधिष्टातृकमन्त्रालयञ्च तद्यथाहस्ते क्षणसमये उदाहरणे सम्वत १७-३७ वर्षे आषाढसितद्वितीयायां शुक्र पुष्य नक्षत्रं चन्द्रस्तस्य कर्कराशिः स्थानं तच्च सावित्र्याः प्रथमभागे तदिग् दक्षिणातस्याः पतिर्यमः तेन कोपाधिक्यं रोगवत्ता दक्षिणस्यां जिगमिषा दक्षिणात्यवस्तुरागः क्षुद्रकर्मकरलोक मैत्री कदाचित्समताः धर्मचिकीर्षा,
औषधसेवा, स्वोदये पूर्वजक्षय इत्यादि स्वभावो वोध्यः । उछिष्ट चाण्डाली प्रभृति मन्त्राल्लभ्यं इन्द्रादि: ध्यानमपि हस्तयोरिन्द्रः इति वैद्यकशास्त्र सुश्रुतोक्तेन तथा यमध्यानं पितृरेखायां वंश्यानां भात्रादीनां बहुजीवित्वा कांक्षया वरुणध्यानमायुषो रेखायां तत् पूर्णत्वाकाङ्क्षया सोमयमयोर्जीवितात्
"Aho Shrutgyanam"