________________
( १४९ )
7
कान्ते गोमयेन मण्डलं कृत्वा गणपतिब्रह्मविष्णुरुद्रादित्यानां स्थापनमन्त्रविधि-वत् विधाय स्वेष्टदेवतां ध्वात्वा हृदये प्रश्नं प्रकाश्य प्रच्छकोयावदागच्छे त्तावद्गणकस्त्वेनं मन्त्रं निश्चलचित्तो जपेत् पश्चात् प्रष्टाऽतिभक्तिभावयुक्तो मौनमालम्ब्य गणकसमीपे वागत्य सुवर्णताम्बूलपूगीफलहस्तश्चन्दनपुष्पादिभिर्गणकं भचक्रं चाभ्यर्च्य किञ्चित् फलनामोच्चरेत् । अथ गणकस्तं प्रश्न- सावधानतयावत्य लिखेत्, पश्चात् स्वराक्षरविचारं पिण्डं कुर्यात् तत् काल वहमानं स्वरं चिन्तयेत्, तात्काललमग्रह नवांशान् स्पष्टतयास्थापयेत् इति यमलोक्त प्रश्नविधिः ।
ऊर्ध्वदृष्टिर्भवेज्जीवस्त्वषोदृष्टिश्चमूलकम् । समावालोकानेधातुरिती ज्ञेयंतु सुस्थिरैः ॥ १ ॥ उत्तराक्षरकैः प्रश्नोनिश्चितं सिद्धिदायकः । अघरैरक्षरैः प्रश्नो विलम्बात्सिद्धिकारकः ॥ २ ॥ दग्धाक्षरास्तुपृच्छायामवश्यं कार्य नाशकः । प्रश्नकाले सुषुम्णा चेत् सिद्धिर्नस्यात्कदाचन ॥ ३ ॥ मन्दार्केज्यकुजेवारे रवौ याम्यापरस्थितः ।
प्रत्यक् कपाले यः पृच्छेत् तस्यसिद्धिः करे स्थिता ॥ ४ ॥ बुधशुक्रेन्दुवारे ग्लौर्वहति प्रागुदक् स्थितः ।
प्राक्कपाले तु यः पृच्छेत्तस्यसिद्धिर्भवेद् ध्रुवम् ॥ ५ ॥ आधिक्यं यस्य वर्णस्य प्रश्नमध्येतु दृश्यते ।
ताश्च चिन्तां विजानीयात् आद्यवर्णानुसारतः ॥ ६ ॥ ह्रस्वा मात्रालिङ्गिताच दीर्घचैवाभिधूमिता ।
उ ऊ अं अः स्वरमात्रा दग्धाः प्राज्ञैः प्रकीर्तिताः ॥ ७ ॥ आलिङ्गिते सदा ज्ञेयं चन्द्रादिकमनुक्रमात् ।
प्रश्ने वा समये ज्ञेया लिङ्गिताङ्काः सदाबुधैः ॥ ८ ॥ स्वरवर्णप्रमाणं च स्ववर्गगुणितं मिसथसः । पञ्चहीनैभवेद्राशिः पिण्डसंज्ञः स उच्यते ॥ ९ ॥ इत्यालिङ्गितचक्र स्थापना
"Aho Shrutgyanam"