________________
( १०८ )
- सार्द्धसप्तघटी यावत्तस्या अवस्थिते: तेन गौर्यो यदिशुभोद्धरेखादिस्थानं
तर्हि शुक्रदशा शुभा अन्यथा अशुभास्वराशीश मित्रामित्रत्वादिकमप्यत्रान्वेषं एवं हस्तेक्षा प्राप्ये जन्मलाभे यदि शुक्रः शुभमित्रादिराशिस्थस्तदा - तद्दशापि शुभेति मन्तव्या एतदनुसारेण ज्योतिः शास्त्रदशापि हस्तलक्षणात् शुभाशुभावा ज्ञेया ॥५३॥
॥ इति दशाचकदर्शनम् ॥ अथ दिनलग्रदर्शनमाह--- पाणियद्वासरेवीक्ष्य स्तत्संक्रान्ति दिनोदये । देयान्होमान योगेन तदनुक्रमतः पुनः ॥ ५४ ॥ पाणिरिति । अह्न इति अहोमानं शुभसंक्रान्य पेक्षयेति । ज्योतिः `शास्त्रानुसारेण यदाग्रहादीयं ते अन्यथा अहोमानं - उत्कृष्टजघन्यादि तदेव सामुद्रिकैर्विचार्यम् यद्व । स्थूलनयापेक्षयैव यथायोगं दिनमानानुसारेण यलनमानं प्राप्तं तत् संक्रान्ति प्रथमदिनादारभ्य संक्रान्ति प्रान्तं यावत्. ज्ञेयम् ॥ ५४ ॥
लग्नप्राप्तिविधानमाह
शक्तिशालीक्षणे प्राप्ते लग्नंसम्यग् विचार्यते ।
स्थानयोगाद् ग्रहन्यासात्तत्र वाच्यं शुभाशुभम् ॥ ५५ ॥ शक्ती इति । शक्तिशालीहस्त ति तद्वीक्षणे समये आगतं लभं विचार्य स्थानेति ननु तारादि यदेवस्थानं तत्र शन्यादिनियत एवेति किं स्थानग्रहयोर्द्वयोरादानमिति चेन्न; क्वचिद्विरोधेन द्वयोरप्यावश्यकविमर्शात् अत 'एवाङ्गुष्ठमध्यांशे मूळस्थानेऽपेि सूर्यस्यान्यत्र । नवकाशान्मूलबाधेन मध्ये ताम्रै रविस्थितरित्युक्तं स्थानाद्द्महस्य बलवत्त्वात् ग्रहाणां चोरणस्थानाऽ नियमाच्च ॥ ५५ ॥ संक्रान्तिक्रममाह
कनिष्ठाद्यात्रिभागाच्च मृगादिरविसंक्रमम् । प्रारभ्यदिनसंक्रान्तिर्यत्र लग्रक्रमस्ततः ॥ ५६ ॥
" Aho Shrutgyanam"