________________
॥१॥
॥२॥
पूर्वाचार्य विरचित ॥ श्री सामुद्रिकशास्त्र ॥ आदिदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम् ।। सामुद्रिकं प्रवक्ष्यामि सुभगं पुरुषस्त्रियोः पूर्वमायुः परिलक्षेत्पश्चाल्लक्षणमेव च ॥ आयुहीन नराणां च लक्षणैः किं प्रयोजनम् वाम भागे तु नारीणां दक्षिणे पुरुषस्य च ॥ निर्दिष्ट लक्षणं तेषां समुद्रबचनं यथा पञ्च दीर्घ चतुईस्वं चतुः सूक्ष्मं षडूनतम् । सप्त रक्तं त्रि विस्तीर्णं त्रि गंभीरं प्रशस्यते बाहु नेत्रान्तरं चैव जानू नासा तथैव च ॥ स्तनयोरन्तरं चैवं पञ्चदीर्घ प्रशस्यते ग्रीवा प्रजननं पृष्ठं हृस्वे जके च पूज्यते । इस्वानि यस्य चत्वारि पूजामाप्नोति मानवः सूक्ष्माण्यङ्गलिपर्वाणि केशास्थिदशनास्तथा ।। सूक्ष्माणि यस्य चत्वारि ते नरा दीर्घजीविनः कक्षा कुक्षिश्च वृक्षश्च घाणस्कंध ललाटिकाः ॥ सर्व भूतेषु निर्दिष्टं षड्नतं प्रशस्यते पाणिपाद तलौ रक्तौ नेत्रान्तानि नखास्तथा ॥ तालु जिह्वाधरौष्ठं च ससरक्तोऽर्थवान्भवेत् उरः शिरो ललाटं च त्रिविस्तीर्ण प्रशस्यते ॥ स्वरं सत्वं च नामिश्च त्रिगंभीरं सुखपदम्
॥५॥
॥७॥
॥८॥
॥ १०॥