________________
१७
જૈન સામુદ્રિકના પાંચ ગ્રંથ
अक्षिणी निर्मलनीलस्फटिकारुणमये ईषत्स्निग्धे ॥ स्यातामंतर्मेचककृशान्तशोणे दृशौ धनिनः ॥२४५॥ हरितालाभैर्नयनैर्जायन्ते चक्रवर्तिनो नियतम् ॥ नीलोत्पलदलतुल्यैर्विद्वांसो मानिनो मनुजाः ।।२४६॥ लाक्षारुणैरपति यनैर्मुक्तासितैः श्रुतज्ञानी ॥ भवति महार्थः पुरुषो मधुकांचनलोचनैः पिङ्गैः ॥२४७॥ सेनापतिर्गजाक्षश्चिरजीवी जायते सुदीर्घाक्षः ॥ भोगी विस्तीर्णाक्षः कामी पारावताक्षोपि
॥२४८॥ श्यावदृशां सुभगत्वं स्निग्धदृशां भवति भूरिभोगित्वम् । स्थूलदृशां धीमत्त्वं दीनदृशां धनविहीनत्वम् ॥२४९॥ नकुलाक्षमयूराक्षा जायन्ते जगति मध्यमाः पुरुषाः ॥ अधमा मण्डूकाक्षाः काकाक्षा धूसराक्षाश्च
॥२५०॥ बहुवयसो धूम्राक्षाः समुन्नताक्षा भवन्ति तनुवयसः॥ विष्टब्धवर्तुलाक्षाः पुरुषा नातिकामन्ति तारुण्यम् ॥२५१ ॥ ऋजु पश्यति सरलमनाः पश्यंत्यूदुर्ध्वं सदैव पुण्याढ्याः॥ पश्यत्यधः सपापस्तिर्यक्पश्यति नरः क्रोधी ॥२५२॥ सततमबद्धो लक्ष्म्या विधूर्णते कारणं विना दृष्टिः॥ यस्य म्लाना रूक्षा सपापकर्मा पुमान् नियतम् ॥२५३ ।। अंधात्क्रूरः काणः काणादपि केकरो मनुजात् ॥ काणाकेकरतोऽपि क्रूरतरः कातरो भवति
॥ २५४॥ अहिदृष्टिः स्याद्रोगी बिडालदृष्टिः सदा पापः ॥ दुष्टो दारुणदृष्टिः कुक्कुटदृष्टिः कलिप्रियो भवति ॥२५५॥ अतिदुष्टा धूकाक्षा विषमाक्षा दुःखिताः परिज्ञेयाः ॥ हंसाक्षा धनहीना व्याघ्राक्षाः कोपना मनुजाः ॥२५६॥