________________
१७५
જેન સામુદ્રિના પાંચ ગ્રંથ
मीनो मकरः शंखः पद्मो वांतर्मुखः सदा फलदः। पाणौ बहिर्मुखो यदि तत्फलं पश्चिमे वयांसे ॥ १७०॥ मीनाङ्कशतभागी सहस्रभागी सदैव मकराङ्कः । शंखाको लक्षपतिः कोटिपतिर्भवति पद्माङ्कः
॥१७१॥ छिनैर्भिन्नः स्फुटितैव्यक्तैः किमपि नास्ति फलमेतैः । अविमुखा जायंते पाणितले प्रायोऽमी सार्वभौमानाम् ।। १७२॥ शैलः प्रांशुस्तले यस्य विस्फुटः स्फुरति स पुमान् । प्रायो राज्यं लभते निजभुजसहायोपि
॥ १७३॥ रथयानकुंजवाजिवृषाद्याः स्फुटाः करे येषाम् । परसैन्यजयनशीलास्तेसैन्याधिपतयः पुरुषाः ॥१७४॥ उडुपो वा बेडी वा पोतो वा यस्य करतले पूर्णः। धनकांचनरत्नानां पात्रं सांयात्रिकः स स्यात् ॥१७५॥ श्रीवत्सामा सुखिनां चक्रामा भूभुजां करे रेखा । वज्राभा विभववतां सुमेधसां मीनपुच्छामा वापीकूपजलाद्यैर्धर्मपरः स्यात्रिकोणरेखाभिः । सीरेण नरः कृषिमानुलूखलप्रभृतिभिर्यज्वा
॥१७७॥ करवालाकुशकार्मुकमार्गणशक्त्यादयः करे यस्य । नियतं स क्षोणिपतिवीरः शत्रुभिरजेयः स्यात् ॥१७८॥ जायन्ते श्रीमंतः प्रासादैर्दामाभिः स्फुटं मनुजाः। निधिनायकाः कमंडलुकलशस्वस्तिकपताकाभिः ॥१७९॥ यस्य सदंड छत्रं चामस्युग्मं प्रतिष्ठितं पाणौ । सोऽम्बुधिरशनावासां भुनक्ति भूमि भुजिष्योऽपि ॥१८॥ विप्रस्य यस्य यूपो वेदनिमं ब्रातीर्थमपि हस्ते । विश्वाधिपतिर्नियतं स भवेदथवामिहोत्रीशः ॥१८१॥