________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २५१
* दीधितिः * केचित्तु यादृशपक्षकयादृशसाध्यकयादशहेतो यावन्तो दोषाः
* गादाधरो अत्र चास्वरससूचनाय केचिदिति । स च उक्तयुत्तया निह्निवह्निमानित्यादिस्थलीयदोषासंग्रहण । न च धम्मितावच्छेदकत्वप्रत्यासत्त्या वह्निप्रकारज्ञानं प्रति वह्नयभावप्रकारकज्ञानस्य प्रतिबन्धकतामते निर्वहिर्वह्निमानित्येतादृशज्ञानसमानविषयकानाहाय्यवह्निमानित्याकारकज्ञानप्रतिबन्धकतामादाय लक्षणसमन्वयस्तत्रापि सम्भवतीति वाच्यम् , तादृशमताश्रयणे पर्वतो .. वह्निमानित्यादौ वह्नयभाववढ्दादेर्दोषताप्रसङ्गात् । यादृशेति सर्वत्र यद्रूपावख्छिन्नार्थकम् ।।
®चन्द्रकला निर्विवादतया तादृशवह्नयभावप्रकारकत्वावच्छिन्न प्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छेदकविषयिताकत्यस्य वह्निमत्पर्वतेऽनपायात् ।
हृदादौ वह्नयादिसाध्यकस्थले तु हृदविशेष्यकवढ्यादिप्रकारकत्वत्वापच्छिन्नस्यैव तादृशसाध्यग्रहत्वव्यापकतया तदवच्छिन्नप्रतिबध्यतामादायव वह्नयभावविशिष्टहृदादिरूपबाधादी लक्षणसमन्वय इति तु तत्त्वम् , ___ अत्र च तादृशप्रकारकग्रहत्वावच्छिन्नत्वं प्रतिबध्यतायां तादृशग्रहत्त्वव्यापकत्वं तेन काञ्चनमयह्रदो वह्निमान् इत्यादौ वह्नयभाववद्ह्रदरूपबाधनिश्चयप्रतिवध्यतावच्छेदककोटौ काञ्चनमयत्वावच्छिन्नह्रदविशेष्यकहिप्रकारकमहत्वस्याऽप्रवेशेऽपि न क्षतिरिति ध्येयमितिदिक् ।
निरुक्तमतेऽस्वरसं प्रदर्शयति अत्रचेति । निरुक्तमते चेत्यर्थः । तथा च निरुक्तस्य लक्षणार्थताभ्युपगमेऽपि निर्वह्निर्वह्निमानित्यादौ वह्नयभावविशिष्टवहथभाववद्रूपबाधेऽव्याप्तिः, निर्वह्निविशेष्य कवह्निप्रकारकग्रहत्त्वव्यापकं यत् वह्नयभावावच्छिन्ने वह्निप्रकारकत्वं तदवच्छिन्न प्रतिबध्यत्वाप्रसिद्धः तस्याहायज्ञानमात्रनिष्ठत्वादित्याह स चोक्तति । अस्वरसश्चोक्तयुक्तथेत्यर्थः ।
शंकते नचेति । वाच्यमितिपरेणान्वयः । धर्मितावच्छेदकतासम्बन्धेन वह्निप्रकारका ज्ञानं प्रति तेन सम्बन्धेन बढ्यभावप्रकारकज्ञानस्य प्रतिबन्धकत्वे न वह्नयभावविशिष्टवह्नयभाववत्यव्यातिः, निर्वह्निर्वह्निमानित्याकारकज्ञानविषयविषयकग्रहपदेन पर्वतविशेष्यकवहिप्रकारका हस्याप्युपादानसम्भवात् तत्प्रतिबन्धकतावच्छेदकवढयभावविषयिताकत्वस्य तादृशबाधे सत्वादितिभावः ।
"Aho Shrutgyanam"