________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २४७
* दोधितिः * तादृशज्ञानविरोधित्वं वा हेतुदोषत्वम् । ज्ञानविरोधित्वञ्च तद्विषयविषयकग्रहविरोधिग्रहविषयत्वम् ।।
गादाधरी तदेवाह तादृशज्ञानवि रोधित्वं वेति । तादृशज्ञानविरोधित्वं यदि ताहज्ञानप्रतिबन्धकतावच्छेदकस्वावच्छिन्नविषयिताकधर्मवत्त्वं तदा पूर्वनिरुक्तयथाश्रतमूलार्थ एव पर्यवसानात् निर्वह्निः पर्वतो वह्निमानित्यादिस्थलीयदोषाव्याप्तितादवस्थ्यमिति तन्निर्वक्ति ज्ञानविरोधित्वञ्चेति । तद्विषयविषयकेति । तथाच निर्वह्निः पर्वतो वह्निमानित्यादौ तादृशज्ञानविरोधिज्ञानाप्रसिद्ध्यापि
चन्द्रकला * विरोधिविषयितायां निवेशापेक्षया विरोधित्वघटकप्रतिबन्धकतायां तन्निवेशस्यैव लघुत्वात् । ____एवञ्च सति स्वावच्छिन्नविषयकत्वव्यापकी भूतं यत् तादृशज्ञानविषयविषयकग्रहप्रतिबन्धकत्वं तदवच्छेदकविषयितानिरूपकतावच्छेदकस्ववत्वं समुदितलक्षणार्थ इति भावः ।
ज्ञानविरोधित्वञ्चेत्यादिदीधितिमवतारयति तादृशज्ञानेति । पक्षे साध्यहेतुवैशिष्ट्यावगाहिज्ञानविरोधित्वं यदीत्यर्थः । तादृशेति । यद्पावच्छिन्नविषयकत्वव्यापकं पक्षे साध्यवैशिष्ट्यावगाहि-साध्यव्याप्यहेतुवैशिष्ट्यावगाहिज्ञानप्रतिवन्धकत्वं तद्रूपवत्त्वमित्यर्थः । पूर्वनिरुक्तति । पूर्वोक्तमूललक्षणार्थस्यैव पर्यवसितत्वे ।
निर्वह्निरिति । तादृशस्थले पक्षतावच्छेदकविशिष्टे साध्यवैशिष्ट्यावगाहिज्ञानस्याहार्यत्वेन तादृशज्ञान प्रतिबन्ध कत्वस्यैवाऽप्रसिद्धः, तत्स्थलीयवह निमपर्वतरूपाश्रयासिद्धिरूपदोषेऽव्याप्तिवारणमशक्यं स्यादित्यर्थः । तन्निर्वक्ति = तादृशज्ञानविरोधित्वं निर्वक्ति, दीधितिकार इति शेषः ।
प्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकप्रकृतसाध्यव्याप्यप्रकृतहेतुप्रकारकज्ञानविषयविषयकग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वरूपलक्षणा. विवक्षणे तु न निर्वह्निःपर्वतो वह्निमान् इत्यत्र वह्निमत्पर्वतरूपाश्रयासिद्धावव्याप्तिः. तादृशपक्षे साध्यादिवैशिष्टयावगाहिज्ञानविषयीभूतवन्यभाववत्पर्वतविषयक: यः पर्वतो वलयभाववानित्याकारकग्रहस्तत्प्रतिबन्ध कतानतिरिक्तवृत्तिवह्निमत्पर्वतविषयितानिरूपकतावच्छेदकताशपर्वतत्वस्य वह्निमत्पर्वते सत्त्वादित्याह तथाचेति । निरुक्तरीत्या तादृशज्ञानविरोधित्वस्य विवक्षणे चेत्यर्थः ।
"Aho Shrutgyanam"