SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपान [ एकचत्वारिताम् विन्द्रादिभिस्तस्य विहितत्वादस्मदादिभिरपि कृतानुकरणादिभिः प्रयोजनैस्तत्तत्र विधीयते तर्हि तत एवाभरणादिभिर्विभूषणादिकमपि विधेयम् , कृतानुकरणादेः समानत्वात् । एवमन्यदप्यागमबाह्य परपरिकल्पितमागमयुक्तिप्रदर्शनेन प्रतिषेद्धव्यम् । तदेवमनधीताश्रुतयथावदपरिभावितागमतात्पर्या दिग्वासस इवाप्ताज्ञां विगोपयन्तीति व्यवस्थितम् ॥ ६५ ॥ यत एवं तत:जह जह बहुस्सुओ संमओ य सिस्सगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ ॥६६॥ यथा यथा बहुश्रुतः सम्मतश्च शिष्यगणसंपरिवृतश्च । अविनिश्चितश्च समये तथा तथा सिद्धान्तप्रत्यनीकः ॥ छाया ।। 10 यथेति, सम्यगर्थमनवधार्यानेकशास्त्रश्रवणमात्रतः शास्त्रज्ञत्वेन तथाविधापराविदित शास्त्राभिप्रायाणां सम्मतोऽत एव श्रुतविशेषानभिज्ञैः शिष्यगणैः सम्परिवृतः, तथाविधपरिवारदर्पाच्छास्त्रपर्यालोचनेऽनादरात् समयेऽविनिश्चितश्च यथा यथा भवति तथा तथा सिद्धान्तप्रत्यनीकोऽपि, यथावस्थितवस्तुस्वरूपप्रकाशकागमप्रतिपक्षो निस्सारप्ररूपणयाऽन्या गमेभ्योऽपि भगवदागममधः करोतीति यावत् ॥ ६६ ॥ 15. एवश्व शास्त्रमधीत्य तदर्थावधारणं विधेयम् , अवधृततदर्थश्च नयप्रमाणाभिप्रायतो यथावदर्थः परिभावनीयोऽन्यथा तत्फलपरिज्ञानविकलता स्यादित्याह चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा। चरणकरणस्स सारं णिच्छयसुद्धं ण याणंति ॥ ६७ ॥ चरणकरणप्रधानाः स्वसमयपरसमयमुक्त व्यापाराः। चरणकरणयोः सारं निश्चयशुद्धं न जानन्ति ॥ छाया ॥ चरणेति, व्रतश्रमणधर्मसंयमवैयावृत्त्यब्रह्मगुप्तिज्ञानादित्रयतपःक्रोधादिनिग्रहस्वरूपं चर. णम् , पिण्डविशुद्धिसमितिभावनाप्रतिमेन्द्रियनिरोधप्रतिलेखनगुप्त्यभिग्रहस्वरूपं चरणम् , तद. नुष्ठानतत्पराः । अयं स्वसमयोऽनेकान्तात्मकवस्तुप्ररूपणादयं परसमयः केवलनयाभि प्रायप्रतिपादनादित्येतस्मिन् परिज्ञानेऽनाहता अनेकान्तात्मकवस्तुतत्त्वं यथावदनवबुद्ध्य. 25 मानाश्चरणकरणयोः फलं ज्ञानदर्शनयोगात्मकं निष्कलङ्क नानुभवन्ति, तस्य ज्ञानदर्शन चारित्रात्मककारणप्रभवत्वात् कारणाभावे च कार्यस्यासम्भवादन्यथा तस्य निहेतुकस्वापत्तेः, चरणकरणयोश्चारित्रात्मकत्वाद्रव्यपर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावादिति ॥ ६७ ॥ 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy