SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सम्मतितरणसोपाने [ মাবিয়া विकलकारणकर्मबीजभूताध्यवसानत्वात् , यस्तु नैवं नासौ तथा, यथोभयसंप्रतिपत्तिविषयः पुरुष इति वैधर्म्यदृष्टान्त इति चेन्न, साध्यसाधनयोः प्रतिबन्धासिद्धेः, निरुक्ताध्यवसानम. बलातो हि निवर्तमानम शेषकर्मक्षयाध्यवसायनिवर्तकं कारणं वा भवद्भवेत् , व्यापकं वा, नाद्यः, अशेषकर्मक्षयाध्यवसानं प्रति निरुक्ताध्यवसानस्याकारणत्वात् , येन तन्निवृत्त्या तस्यापि 5 निवृत्तिर्भवेत् । कारणत्वे वा यत्राशेषकर्मक्षयाध्यवसानं योगिनि सम्भवति तत्राधःसप्तमनरकपृथिवीप्राप्ताववन्ध्य कारणस्य बीजभूताध्यवसानस्य सद्भावात् , कार्यस्य कारणाव्यभि. चारित्वात्तस्य नरकप्राप्तिसद्भाव इत्यनिष्टापत्तिः । न च तत्र कारणसद्भावेऽपि कार्य नोत्पद्यत इति वक्तव्यम् , अविकलकारणस्यावश्यतया स्वकार्यनिर्वर्तकत्वात् । न द्वितीयः, व्याप्यस्य सत्त्वे व्यापकस्याप्यवश्यं सद्भावात्तत्रैव तद्दोषतादवस्थ्यात् । न च यत्र क्लिष्ट10 तराध्यवसायसद्भावस्तत्रातिशुभतराध्यवसायेन भाव्यमिति प्रतिबन्धसम्भवः, तन्दुलमत्स्येन व्यभिचारात्, न च मनुष्यजातियोगित्वे सतीति विशेषणं वाच्यम् , उत्तमसंहनेन चारित्रप्राप्तिकालाक्सिमयभाविना सर्वपर्याप्तिसम्पन्नेन तथाविधक्लिष्टपरिणामवता पुरुषेण व्यभिचा. रात् । न च यत्रातिशुभतरः परिणामस्तत्राप्यशुभतरपरिणामेन भाव्यमित्यत्रापि प्रतिबन्धः, तथाविधयोगिना व्यभिचारात् । स्त्रीणां सप्तमनरकपृथ्वीप्राप्तिनिबंधनकर्मबीजाध्यवसाया15 भावो यद्याप्तागमात् प्रतिपन्नस्तर्हि तत एवाशेषकर्मपरिक्षयनिबन्धनाध्यवसायसद्भावोऽपि प्रतिपन्न एव, न ह्यतीन्द्रिय एवंविधेऽर्थेऽग्दिशोऽस्मदादेराप्तागमादृतेऽन्यत् प्रमाणमस्ति, न च दृष्टेष्टाविरोध्यातवचनमसत्तर्कानुसारिजातिविकल्पै धामनुभवति, तेषामवस्तुसंस्पर्शि. त्वात् । न चात्र वस्तुन्यागमनिरपेक्षमनुमान प्रवर्तते, पक्षधर्मादेलिङ्गरूपस्य प्रमाणान्तरतः प्रतिपत्तुमशक्तः, प्रतिपत्तौ वा साध्यस्यापि प्रतिबन्धप्राहिप्रमाणतः प्रतिपत्तेनैकान्ततोऽ20 तीन्द्रियता भवेत् , आगमानुसारि चानुमान न बाधकम् , प्रकृतवस्तुसंवादकत्वात् । न चाप्त वचनं स्त्रीनिर्वाणप्रतिपादकमप्रमाणम् , सप्तमनरकप्राप्तिप्रतिषेधकञ्च प्रमाणमिति वक्तव्यम् , प्रामाण्यनिबन्धन याप्तप्रणीतत्वादेरुभयत्राविशेषात् । एकमाप्तप्रणीतमेव न भवतीति चेन्न, इतरत्राप्यस्य समानत्वात् , पूर्वापरोपनिबद्धाशेषदृष्टादृश्प्रयोजनार्थप्रतिपादकावान्तरवाक्यस मूहात्मकैकमहावाक्यरूपतयाऽर्ह दागमस्यैकत्वात् तथा चान्तरवाक्यानां केषाञ्चिदप्रामाण्ये 25 सर्वस्याप्यागमस्याप्रामाण्यप्रसक्तेः, अङ्गदुष्टत्वे तदात्मकाङ्गिनोऽपि दुष्टत्यापत्तेः । न च प्रद सर्वोत्कृष्टपदप्राप्तिरपि न तासां समस्ति तथावादलब्धिविकुर्वणत्वादिलब्धिपूर्वगतश्रुताधिगतिषु सामर्थ्याभावादपि न तत्प्राप्तिरिति पूर्वपक्षाशयः ॥ नि:प्रेयसं प्रत्यपि तासां सर्वोकृष्ट मनोवी परिणतिर्नास्तीत्यस्य साधक नास्ति किञ्चित् प्रमाणम्, अन्तव्याप्तिमन्तरेण केवल संम्मूच्छिमादिदृष्टान्तमात्रेग च न साध्यसिद्धिरित्याशये. नाह साध्येति ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy