________________
बोनम् ]
बचन विधारा। भ्या पदार्थानामेवाकासायोग्यतासन्निध्यवच्छिन्नानाम , पदश्रवणाभावेऽपि हि यदा श्वेतगुणं द्रव्यं पश्यति हेषाशब्दादश्वजातिश्चानुमिनोति खुरविक्षेपादिजनितशब्देन क्रिया बुध्यते तदा श्वेतोऽश्वो धावतीत्यवगच्छति, यत्र च. मानसादपचाराच्छृण्वन्नपि पदानि न पदार्थानत्रधारयति तत्र न भवति वाक्यार्थप्रत्यय इत्यन्वयव्यतिरेकबलात् पदार्थानां वाक्यार्थबोधकत्वं निश्चीयत इति तदप्ययुक्तम् , पुरुषव्यापारस्य तद्वयतिरिक्तस्य पूर्व प्रतिषिद्धत्वाद्वाक्या. 5 र्थानुपपत्तेः, तत्सत्वेऽपि पदार्थात्तस्याभेदे पदार्थ एव स्यान्न वाक्यार्थः, ततश्च वाक्यार्थस्य पदार्थगम्यता पदार्थस्य सामान्यात्मकतयाऽकार्यत्वेन धर्मरूपता न स्यात् । सामान्यस्य नित्यतया च वर्तमानत्वात् प्रत्यक्षाद्यवतारेण चोदनाया अनुवादकत्वं स्यात् । तथा च तद्वि. षये प्रवृत्ता चोदना प्रमाण न स्यात् , पदानामपि स्मृत्युत्पादकत्वेनैव प्रामाण्यस्य भवद्भिः स्वीकारात् शाब्दस्य न कचिदर्थे प्रामाण्यं भवेत् । किञ्च पदार्थाः वाक्याथै कि शब्दप्रमाण- 10 तयाऽवबोधयन्ति, उतानुमानत्वेन, किं वाऽर्थापत्तितः, आहोस्वित् प्रमाणान्तरत्वेन, नाव: पदार्थानामशब्दात्मकत्वात् । न द्वितीयः, वाक्यार्थप्रतिबद्धतया पदार्थानां प्रागप्रतिपत्तेरनुमानानक्तारात् , न च वाक्यार्थो न प्रमाणान्सरगोचरः, अतोऽनवगता पदार्थव्यापकताऽनुमानगोचर इति वाच्यम् , अन्यत्रापि तथाभावप्रसक्तेः । वाक्यार्थाविनाभावित्वावगमे वा चोदनाया अनुवादरूपताप्रसक्त्याऽप्रामाण्यं स्यात् । न वा पदार्थानां प्रक्षधर्मता 12 कचिदवगता न च तदवगममन्तरेणानुमानप्रवृत्तिः । न तृतीयः, चोदनालक्षणोऽर्थों धर्म इत्यभ्युपगमव्याघातात् , अनुमानादर्थापत्तरव्यतिरेकाच्च । अत एव न तुर्यविकल्पोऽपि युक्तः । न च पदेभ्यः पदार्थास्तेभ्यश्च वाक्यार्थः प्रतीयत इति परम्परया चोदनाया धर्म प्रति निमित्तत्वमिति वक्तव्यम् तथा सति श्रोत्रात् पदज्ञानं ततः पदार्थविज्ञानं तस्माच धर्मशानमिति परम्परया प्रत्यक्षलक्षणोऽर्थो धर्मः स्यात् , साक्षाद्धर्म प्रति न प्रत्यक्षस्य 20 व्यापार इति तु चोदनायामपि समानम् । पदञ्च पदार्थस्यापि स्मारकत्वान्न वाचकम् , न वा स्मर्थमाणपदार्थसम्बद्धतयाऽविज्ञाते वाक्यार्थे पदार्थस्मरणान्यथानुपपत्त्या प्रतिपत्तियुक्ता, न सम्पन्धो वाक्यार्थेन सह कस्यचिदवमन्तुं शक्यः, सम्बन्धप्रतिपत्तः सम्बन्ध्यवर्गमपूर्वकत्वात् , स्मर्यमाणपदार्थप्रतिपत्त्यन्यथानुपपत्तिञ्च विना नान्यतो वाक्यार्थप्रतिपत्तिः, तामन्तरेण च नान्यथानुपपत्तेः प्रवृत्तिरितीतरेतराश्रयप्रसक्तेर्न कथञ्चिद्वाक्यार्थप्रतिपत्तिः 25 स्वात् । मानसापचारस्थलेऽपि न पदार्थानवगमाद्वाक्यार्थानवगमः किन्तु विशिष्ट पदसमुदा. यात् कथंचिदभिन्नस्य वाक्यस्यैवानवबोधान्न तत्र वाक्यार्थप्रतिपत्तिः। न ह्युपहितमनसो वाक्यात्मकपदानां श्रोत्रसम्बन्धमात्रेणावगमः, न चानवगतं स्वरूपेण वाक्यं वाक्वार्थसम्बद्धत्वेन वा स्वार्थ प्रतिपादयत्यतिप्रसङ्गात् । किश्नोपहतमना यदि शृणोति पदानि
"Aho Shrutgyanam"