________________
। २०६: सम्मतितत्त्वसोपाने
[ पञ्चविंशम् द्भूतेऽपि दूरस्थितपादपादिज्ञाने वैशद्यादेरभावात् , योगिप्रत्यक्षे चार्थप्रभवस्वाभावेऽपि भावात्, न च तदप्यर्थसामोद्भूतम, तत्समानसमयस्य चिरातीतानुत्पन्नस्य चार्थस्य तद्हणानुपपत्तेः। तचाप्रभवमपि यथा विशदं, अन्यथा प्रत्यक्षत्वानुपपत्तस्तथाविकल्प
ज्ञानमर्थसामर्थ्याप्रभवमपि यदि विशदं भवेत् को विरोधः । तस्माद्विकल्प एव वैशद्योप5 पत्तेनिर्विकल्पकस्य च निरंशक्षणिकपरमाणुमात्रावसायिनः कदाचिदप्यनुपलब्धेस्तत्र वैशद्य
कल्पना दुरापास्ता । ननु उपसंहृतनिखिलविकल्पसमये विशदमक्षप्रभवं रूपादिदर्शनं निर्विकल्पकं संवेद्यते तथाचाध्यक्षत एव ज्ञानानां कल्पनाविरहः सिद्धः, न ह्यस्यामवस्थायां नामादियोजितार्थोल्लेखो विकल्पस्वरूपोऽनुभूयते, न च विकल्पानां स्वसंविदितरूपतयाऽ
ननुभूयमानानामपि संभव इति विकल्पविकला साऽवस्था सिद्धेति चेन्न तस्यामवस्थायां 10 सविकल्पकज्ञानस्यैवानुभवात् , तदा स्थिरस्थूलस्वभावशब्दसंसर्गयोग्यपुरोवस्थितगवादि
प्रतिभासस्यानुभूतेः न हि सविकल्पकत्वं शब्दसंसर्गप्रतिभास एव, किन्तु तद्योग्यावभासस्यापि, अन्यथाऽव्युत्पन्नसंकेतस्य ज्ञानं शब्दसंसर्गविरहात् कल्पनावन्न स्यात् । न च पूर्वकालदृष्टत्वस्य वर्तमानसमयभाविनि संयोजनाच्छब्दोल्लेखाभावेऽपि असदर्थग्राहित
याऽविशदप्रतिभासत्वात्तत्सविकल्पकम् , पूर्वकालदृष्टत्वस्य पूर्वदर्शनाप्रतीतावपि असत्त्वासि15 द्धेस्तत्सम्बन्धित्वग्राहिणोऽसदर्थत्वासिद्धेवेशद्याभावस्य तत्रानुपपत्तेः । शब्दसंसर्गयोग्यप्रतिभा.
सस्य विशदतया विकल्परूपस्याप्यध्यक्षतोपपत्तेः शब्दयोजनामन्तरेणापि स्थिरस्थूलार्थप्रतिभासं निर्णयात्मकं ज्ञानमध्यक्षमभ्युपगन्तव्यम् , अन्यथा तस्य प्रामाण्यमेवानुपपन्नं भवेत् । यत्रैवांशे हि नीलादौ विधिप्रतिषेधविकल्पद्वयं पाश्चात्यं तजनयति तत्रैव तस्य प्रामाण्यम् ,
तदाकारोत्पत्तिमात्रेण प्रामाण्ये क्षणिकत्वादावपि तस्य प्रामाण्यप्रसक्तस्तदनुमानवैयर्यप्रसङ्गः। १० विकल्पश्च शब्दसंयोजितार्थग्रहणलक्षणः, तत्संयोजनं च न शब्दस्मरणं विना संभवति, पूर्व
तत्सन्निध्युपलब्धार्थदर्शनमन्तरेण च तत्स्मरणं नोपद्यते तद्दर्शनं चाध्यक्षतः क्षणिकत्वादाविव निश्चयजननमन्तरेणासम्भवि, निश्चयस्तु शब्दयोजनाव्यतिरेकेण नाभ्युपगम्यत इत्यध्यक्षस्य कचिदम्यर्थप्रदर्शकत्वासम्भवात् प्रामाण्यं न भवेत् । तस्माच्छब्दयोजनामन्तरेणापि अर्थनि.
र्णयात्मकमध्यक्षमभ्युपगन्तव्यम् , अन्यथाऽविकल्पाध्यक्षेण लिङ्गस्याप्यनिर्णयात, अनुमाना25 त्तन्निर्णयेऽनवस्थाप्रसक्तरनुमानस्याप्यप्रवृत्तितः सकलप्रमाणादिव्यवहारविलोप: स्यात् । यदपि
निरंशवस्तुसामोद्भूतत्वात् प्रथमाक्षसन्निपातजं निरंशवस्तुग्राहि निर्विकल्पकमित्युक्तं तदपि न सम्यक् , निरंशवस्त्वभावेन तत्सामोद्भूतत्वस्य निर्विकल्पकत्वहेतोस्तत्रासिद्धेः । न च
१ तदुक्तं 'संहृत्य सर्वतश्विन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः । प्रत्यक्ष कल्पनापोडं प्रत्यक्षेणैव सिद्धयति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥' इति ॥
"Aho Shrutgyanam"