________________
प्रबन्धपञ्चशती
भृतं पतग्रहमानीय स्वाङ्गष्ठं तन्मध्ये क्षिप्त्या सर्वान् तापसान् भोजयामास । तेषु जिमत्सु गौतमस्वामिलब्धि ध्यायत्सु ५०० तापसानां केवलज्ञानं जातम् । ततो वमनि श्रीवर्द्धमानजिनवर्णनं श्रुत्वा ५०० तापसानां केवलज्ञानं बभूव । प्रभौ दक्पथागते ५०३ तापसानां ज्ञानमुत्पन्नम् ।
गौतमस्वामी केवलज्ञानोत्पत्तिमजानन् तान्प्रति प्राह–प्रभोः प्रदक्षिणा दास्यन्ते [ दीयन्तामिति ] 5 ततस्ते प्रदक्षिणां दत्त्वा यदा केवलिपर्षापविष्टाः तदा गौतमः प्राह-ये मूर्खास्ते मुर्खा एवं प्रभु
न वन्दन्ते जल्पिता अपि, तदावग् वर्धमानः स्वामी केवल्याशातना मा कुरु [ कार्षीः ], गौतमः प्राह-भगवन् ! का केवल्याशातना ?, ततः प्रभुणा तेषां केवलज्ञानोत्पत्तिसम्बन्धः प्रोक्तः, ततो गौतमः तेषां पादान् नत्वा क्षमयित्वा च प्रभोः पुरः प्राह—येधामहं दीक्षां दास्ये [ प्रादाम् ] तेषां
केवलज्ञानं, मम न, ततः तत्खेदं गौतमे दधाने प्रभुः प्राह तथापि केवलज्ञानं भविष्यतीति ।।१।। 10
[2-17] षोडश श्रीजिनप्रभसूरिप्रबन्धाः । एकदा श्रीजिनप्रभसूरयः पीरोजसुरत्राणेन समं गोष्ठी कुर्वाणा उपविष्टाः । तदा तत्र मुलाणका आगताः, एकेन मुलाणकेन निजटोपिका आकाशे उच्छालिता, सा च तत्र निराधारा तस्थौ, सुरत्राणः श्रीजिनप्रभसूरिसंमुखं प्रेक्ष्याऽऽह-अहो महदाश्चर्य ! सूरिः प्राह-वर्यम् । तप्तः
सूरिणा तत्रैव स्तम्भिता । ततः सुरत्राणोऽवग-आनीयता टोपिका, ततः स आकर्षणमन्त्रं प्रयुञ्ज15 यामास परं नैति सा, ततः सुरत्राणः प्राह-जिनप्रभसूरे ! त्वमानय । ततः सूरिणा क्षिप्तो रजोहरणस्तत्र गत्वा टोपिकामानिनाय ततःसुरत्राणश्चमच्चक्रे ।
द्वितीयदिने मस्तकस्थवारिभृतघटा पानीयहारिका यावद्राज्ञोऽने चचाल तावत्तथा मुलाणेन कृतं यथा घटयुगं व्योम्नि निराधारं स्थितं, स्त्री तु अग्रे गता घटं मस्तके अदृष्ट्वा तत्र
[तद् ] निराधारं च वीक्ष्य राजा चित्ते चमच्चक्रे । ततो राज्ञा स प्रशंसितो यदा, तदा गुरुः 20 प्राह-निराधारं जलं यदि तिष्ठति तदा वर्या कला । ततो राज्ञोक्तः स मुलाणस्तत्कलामजानन् मौनीबभूव, ततो गुरुणा कर्करेणाऽऽहत्य घटयुगं जलं निराधारं स्थापितं दृष्ट्वा] राजा चमच्चके ।
एकदा सुरत्राणेन कान्हडग्रामो भग्नः, तत्रत्या श्रीवीरप्रतिमानीय यवनैः ढील्यां' मसीतद्वारे सोपानकस्थाने स्थापिता । तत एकदा सुरत्राणः श्रीसूरिस्कन्धे हस्तं दधानो मसीति
कायां यावत्प्रविशति तावत्सूरिः वीरप्रतिमा वीक्ष्यैकस्मिन्पार्श्वे स्थितः । तदा सुरत्राणोऽवग-एवं 25 किं कृतं ? जिनप्रभसूरिः प्राह-प्रभुर्देवोऽस्ति । सुरत्राणोऽवग-अयं भूतः किं जानाति ? न
किंचित् । सूरिः प्राह-अयं देवः सत्यवादी ज्ञानी विद्यते । भूपोऽवग्-तहि जल्पय । सूरिः प्राह स्वामिन् ! भूतस्थानकमुपदेशाय कार्यते, तत्र मंह्यते, पूज्यते, ततः पृच्छथते, ततः पृष्टं कथयति, ततः स्वामिनाः देवगृहं कारितं । यदा प्रतिमा नोत्पतति तदा सूरिः प्राह-त्वं हस्तं लगय
यथोत्तिष्ठति, ततस्तथा कार्ये कृते प्रतिमां तां देवालये निवेश्य वर्यभोगेन पूजयित्वा अन्तरा 30 वखं बन्धयित्वा राजा यद्यद्वंशसम्बन्धं पृच्छति तत्तस्योत्तरं दत्ते । २१ प्रियाः प्रोक्ताः, सुरत्राणो
हृष्टः, शङ्कया वस्त्रेऽपसारितेऽपि तथैव प्राह । ततो विशेषतो वीरः पूजितः, कान्हडोमहावीर इति [च ] ख्यातिरभूत् । इति कान्हडा[ड] महावीरस्थापनजिनप्रभाचार्यसम्बन्धः ।।२।। १ 'दिल्ही' इति भाषायाम् । -संपा० ।
"Aho Shrutgyanam"