________________
चतुर्थोऽधिकारः
[३४५ इति वृद्धहितवाक्ये वृद्धवानरसम्बन्धः ॥६११॥
[ 612 ] अथ मातुर्वचाषालने द्विजसम्बन्धः । एका स्वादु न भुञ्जीत नैक: स्वार्थान् प्रचिंतयेत् । एको न हि व्रजेन्मार्गे नैकः सुप्तेषु जागृयात् ॥१॥ एक: कापुरुषो मार्गे द्वितीयः क्षेमकारकः ।
कर्कटेन द्वितीयेन सात पान्यः प्ररक्षितः ॥२॥ पद्मपुरे ब्रह्मदत्तो नाम द्विजः प्रतिवसति स्म । एकदा विप्रो गुरु कार्यत्वाचन्द्रपुरं गन्तुं यावल्लग्नः तावन्मात्रोक्तं पुत्र ! न त्वया एकाकिना गम्यम् । एकाकिनो गच्छतः कदाचिद्विघ्नं जायते । पुत्रोऽवग मातः मा भैषीः, निरुपद्रवाः सर्वे मार्गाः । मातुः पितुः गुरोः प्रसादात् अधुना द्वितीयः पुमान् कोऽपि सहायो न दृश्यते । माताऽवग-अयं [कर्कटः ] सहेळक: सहा. 10 योऽस्तु ते । स च मातृगौरवात् तं ककटं सहेलकं कपूरादिवस्तुग्रंथिमध्ये दृढं कृत्वा चचाल । एकस्मिस्तरोस्तले मध्याह्ने विश्रामार्थ स तस्थौ । ततः भक्ष यित्वा सहेलकं तत्र मुक्त्वा सुप्तः स । इतः कोटगरसो निर्गतः । तेन समं युद्धं कुर्वता सहेलकेन सर्पस्य पुच्छं मुखे गृहीत्वा स्ववपुः पंजरे प्रविष्टः । सर्पस्ते शूलाभिर्विद्धो मृतः। स द्विजो जागरितः । सर्प मृतं दृष्ट्वा रथ्यौ अद्याह मातुः कथितं नाकार्ष तदाहमय मृतोऽभविष्यम् । तेन गुरूणां यः कथितं करोति स सुखी 15 भवति । यत:
मन्त्रे तीर्थे तथा देवे, दैवज्ञे गुरुमेषजे । पादृशी भावना यस्य, सिद्धिर्भवति तादृशी ॥३॥ सर्पाणां च खलानां च सर्वेषां दुष्टचेतसां । अभिप्राया न सिद्धयन्ति तेनेदं वर्तते जगत् ॥४॥
इति मातुर्वचःपालने द्विजसम्बन्धः ॥६१२॥ [ 613 ] अथ लोमे "क्षिणिक्षिणि पाहिं चिणि चिणि मली" सम्बन्धः ।
एकस्मात् पुरात् एकः भत्रियो वर्यबहुवलोऽश्वारूढो वर्त्मनि पचाल ! मागे एको द्विजो मिलितः सन् आशीर्वादमेवं ददौ
वदान्यः क्षत्रियोत्सः कर्णविक्रमसभिभः । चिरं जयास्तु ते दीर्घमायुर्लक्ष्मीबहुः पुनः ॥१॥ उपानयां विना तीक्ष्णकण्टकैश्चरणौ मम । दुखितस्तेन मह्यं त्वं, वितरोपानही द्रुतम् ॥२॥
"Aho Shrutgyanam"