________________
३४२ ]
प्रदी
[ 608 ] अथ तृष्णार्या कुष्टकपरीक्षित परीक्षादौ नापित सम्बन्धः । कुदृष्टं कुपरिज्ञातं, इभुतं कुपरीक्षितम् । तारेण न कर्तव्यं नापितेनास्त्र यत्कृतम् ॥१॥ पाटलिपुरे माणिभद्रश्रेष्ठो बने क्षीणे सुप्तो दध्यौ
शीलं शौषं क्षान्तिर्दाचियं मधुरता कुले जन्म न विराजन्ते हि सर्वे, वित्तविहीनस्य पुरुषस्य || २ || aratha नष्टतारं, शुष्कमिव सरः श्मशानमिव रौद्रम् । प्रियदर्शनमपि रुक्षं, भवति गृहं धनविहीनस्य ||३||
इत्येवं संप्रधार्य रात्रौ सुप्तो दध्यौ - प्रातरनशनेन प्राणत्यागं करिष्यामि । माणिभद्रे सुप्से 10 पद्मनिधिनिधानदेवोऽभ्येत्याऽवग्-मरणं मा कुरु, तब पूर्वकृतशुभ [क]र्म्मणा कल्ये मध्याह्ने क्षपणकरूपभृदहं तबालये समेष्यामि त्वयाहं लकुटप्रहारेण ताडितव्यः शिरसि पादयोश्च । ततोऽहं कनकमयोनिधिर्भविष्यामि । एवं प्रोक्त्वा स गतः । प्रावदध्यौ श्रेष्ठी
15
व्याधितेन सशोकेन चिन्ताग्रस्तेन जन्तुना ।
कामार्त्तेन च मत्तेन दृष्टः स्वप्नो न विद्यते ||४||
20
अयं स सत्य एव दृश्यते । ततो लकुटानय नादि सामग्री कृता श्रेष्ठिना । अत्रान्तरे पत्या नखप्रक्षालनाय नापित आकारितः स्वगृहे । इतः पद्मनिषिः क्षपणकरूपः सभागात् । अथ स तमालोक्य प्रहृष्टमना भोजनं कारयित्वा यथासनकाष्ठदण्डेन तं शिरस्यताडयत् । व हेममयः पुरुषोऽभवत् । ततस्तं गृहमध्ये मुक्त्वा श्रेष्ठी प्राइ नापितं प्रति, दीनारशतं त्वया ग्राह्यं कस्याप्य न प्रोच्यम् ।
ततो नापितो निजगृहे गतो दध्यौ । क्षपणका लकुटाहताः कनकमयाः पुरुषा भवन्ति । ततोऽहमपि क्षपणक भोजयित्वा लकुटप्रहारदानात् कनकपुरुषं कृत्वा सुखीभविष्यामि । ततः प्रातः क्षपणकपार्श्वे गत्वा नापितोऽवगू- अथास्मद्गृहे भिक्षा सपरिवारेण कार्या । तेनोकं भो श्रावक धर्मज्ञ त्वं वयमेवं कस्यापि गृहे यथा तथा भिक्षा न करिष्यामः तेन भाव्यमेवं । ततो नापितोऽप्याह- प्रभूतश्रावका वयं सर्वसामग्री कृता, यद्यस्मद्महे न समेष्यति [भवान् ] तदा 25 मया न भोक्तव्यं । पुस्तक लिखनाय यद्धनं त्रिलोकयिष्यते तदहं दास्ये । एका वर्षा शर्वरी आनीतास्ति [ तत् सर्वथा कालोचितं कार्यम् ] । ततो मध्याह्ने क्षपणकं स्वगृहे नीत्वा वर्याहारैश्वरों कारयित्वा नापितः क्षपणकं दृढलकुट प्रहारैः शिरसि पादयोः पुनः पुनराजघान । [क] पायुगलं हढं दप्ते । ( बहिः) निस्सर्तुमशक्तः उच्चैः पूत्कारं चकार । लोका मिलिताः, राजाप्यागतः, जर्जरगात्रं क्षपणकं दृष्ट्रा प्रोचुः । कथमयमेवं कुट्टितः । स च यथा दृष्टं माणि30 भद्रश्रेष्ठिकृतं कनकपुरुषप्राप्ति (प्र) युतं वृत्तं ] जगौ । ततः श्रेष्ठी पृष्टो राशा, पद्मनिघिदेववरप्राप्ति जगौ । ततः सर्वैरपि प्रोकं—
"Aho Shrutgyanam"