________________
$
10
15
20
३४० ]
प्रवन्यपणाती
aat | af श्येनगृहीतां दृष्ट्रा करुणस्तापसः प्राहेति--मुख मुद्देमां वराकिकां । तामसुंबानं श्येनं प्रति ततः प्रस्तरान् तापसः प्राक्षिपत् । स्रोऽपि श्येनः पाषाणहतो भूमौ पपात । मूषिका-मुनेः शरणं प्राप्ता । इयेनोऽपि लब्धचैतन्योऽवग्-भो मुने ! मदीयं भवत्यं उद्दालितं त्वया विधिना' वचम् | ततस्तव तपः कृतं निष्फलं भविष्यति । शालंकायनो जगौ — एनां शरणागतां प्राणात्ययेsपि न मुखाम्यहम् | ततः श्येनो गतः । मूषिकाथ प्राह-मां स्वाश्रयं नय नोचेदपरो हनिष्यति । ततस्तेन ऋऋषिणा सा मूषिका कुमारी कृता पुत्रीतिकृता स्थापिता । क्रमाद् यौवनं प्राप्ता । ऋषिवरं विलोकयते । यतः --
30
कुलं च शीलं च सनाथता च विद्या च वित्तं च पूर्वयश्च । एतान् गुणान् सप्त परीक्ष्य देया, कन्या बुधैः शेषमचिन्तनीयम् ॥ १ ॥
ततो मुनिना वरो रविरानीतः । स च तापकत्वात् त्यक्तः । ततो मेघ आनीतो मुनिना स च कृष्णत्वात् तया न वरितः । ततो वायुरानीवोऽपि मुनिना चपलत्वान्नांगीचक्रे । ततो सुनना पर्वत आनीतः कठिनत्वान्नांगीचक्रे । ततो मुनिना पुनः सा मूषिका कृता । यतः -सूर्यमेघवायुपर्वतमूषका यथाक्रमं बलिनः, अतो भूषकपत्नी जाता । स्वजातिं प्राप्य संतुष्टाभूत्
खा, यतः---
सूयं भर्तारमुत्सृज्य पर्जन मारुतं गिरिम् । स्वयोनिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमाः ||१|| इति स्वनाविषयमेति मूषिकासम्बन्धः ||६०४|| [ 605 ] अथ भये वणिक्-प्रिया सम्बन्धः ।
या मामुद्विजते नित्यं साऽद्य मामवगूहति । प्रियकारक ! भद्रं ते यन्ममास्ति हरस्व तत् ॥ १॥
हीरप्रामे धीरो वणिग् बभूव । तस्य वृद्धत्वेन पत्नी मृता । अपरा परिणीता च तेन । स्रा च वृद्धस्याचमति न मन्यते । एकदा चौरः प्रविष्टः । तं च प्रविष्टं दृष्ट्वा भयभीता पतिपार्श्व गत्वा प्राह - स्वामिन् ! चौरः प्रविष्टः मां अपहरिष्यति । रक्ष रक्ष मां । ततो वणिजा तां स्थिरीकृत्य चौरस्याग्रे प्रोक्तं छन्नं । मतस्त्वं भयं मा कार्षीः । यन्मम धनं तत्तवैव यतस्त्वया ममोपकारः 25 कृतः, यन्मम पत्नी मयि जल्पन्ती कृता त्वया । कल्ये अभ्येत्य प्रोक्तव्यं-"भो श्रेष्ठिन् ! तब पत्नीमपहरिष्यामि सहस्रदीनारान् गृहीयाः ।" ततो द्वितीयदिने वा विशेषतो भीता चौरेण पतिभक्ता स्त्री जाता । यतः --- या मामुद्विजते नित्यं ।
इति भये वणिप्रिया सम्बन्धः ||६०५||
[ 606 ] अथ अकार्यकरणे हालिकखी - शृगालिकासम्बन्धः ।
बालिमा हालिकपनी हालिकं त्यक्त्वान्यं पतिं चिकीर्षुरभूत् । एकदा तस्मा परवित्ताप
"Aho Shrutgyanam"