________________
चतुर्थोऽधिकारः
[३११ स्तम्भनस्थामहं स्तौमि ता पार्श्वप्रतिमां तथा । पूर्वाचार्यं यथाख्यायि नानास्थाननिवासिना[भिः] ॥१॥ एकादशाब्दलक्षाणि वरुणस्त्वामपूजयत् । नवाहरधिकान् (१) सप्तमासान् रामस्तामर्चयत् ॥२॥ अशीरयन्दसहस्राणि तक्षकेनापि पूजितः । सौधर्मसुरराज्येन चर्चयित्वा चिरं ततः ॥३॥ अदायि वासुदेवाय द्वारवत्यां जिनोत्तमः । ततः सागरतः कात्या विंशत्यब्दशतानि च ॥४॥ पथावत्या ततोऽपूजि पालिताया निदेशतः । आनीतः सेटिकानद्यां नागार्जुनेन योगिना ॥५॥ स्वामिस्ते पुरतस्तेन रसस्तंभो विनिर्ममे । स्तम्भनाख्यं ततस्तीर्थ संजातं जगती[ति] श्रुतं ॥६॥ नवांगवृत्तिकारणाऽऽचार्ये -- णाभयमूरिणा । नवांगदायको नाथ त्वं पुनः प्रकटीकृतः ॥७॥ दुष्टैम्लेंच्छैाढदेशे गुर्जराख्ये परिप्लुते । मङ्गलवग्निचन्द्राब्दे १३६८ स्तम्भतीर्थमवातरः ॥८॥ प्रातः समुत्थाय जिनाधिनाथं यः स्तोत्रमेतत्पठति प्रवीणः ।
रोगोरगारिग्रहसिंहशंकां मुक्त्वा यशःश्रीतिलकायते सः ॥९॥ इति श्रीपार्श्वस्तवः । श्री अभयदेवसरिकृतनवांगवृत्तिसम्बन्धः ॥५५४॥ [556 ] अथ पेथडसाधुसम्बन्धः ।
20 कर्करासनग्रामे पेयडसाधुवणिग उकेशज्ञातीयो वसन्नभूत् , तस्य पद्मिनी पत्नी । झांझणः पुत्रोऽभूत् । स बालः दुस्थावस्थायां सत्यां दुःखी जातः । इतस्तत्र तपागच्छाधीशाः श्रीधर्मघोषसूरय आगताः, तेषा पाश्र्व धर्म श्रुत्वा परिग्रहपरिमाणं गृहन् सहस्रटककानामुपरि मम नियमोऽभवत् इत्युक्ते गुरुरषक ज्ञानेन चेष्टया च त्वद्भाव्यं महद् वतते, एतावता किं भविष्यति ? गुरुणा कमात् वर्धिते ज्ञानातिशयात् , पेयडः प्राइ-भगवन् अधु ना मम किमपि विषेशद्रव्यं 25 नास्ति, परं कदाचिदने प्राप्नोमि तदा मया पंचलक्षटंककामामुपरि गृहे न स्थाप्यं, धर्मे व्ययनीयं १-पारो, इति भाषायाम् ।
"Aho Shrutgyanam"