________________
३०४ ]
प्रबन्धपती [ 543 ] अथ करहामकरि पापदाने उष्ट्रः सम्बन्धः । एकस्मिन् प्रामे एको द्विजो ग्रहणादौ जायमाने दानं गृहाति । तदा भार्या वक्ति । इदं दानं पापनिबन्धनं । ततः क्रमात् विप्रो मृत्वा उष्ट्रोऽभवत् । पत्नी मृत्वा राजपुत्री जाता । क्रमात् सा पुत्री राक्षा भीमभूपाय दत्ता, स च परिणिन्ये तां तदा स एव उष्ट्रस्तस्मै दत्तः । स भारितउपस्करैः मार्ग भीमश्चचाल । बहुभारादुष्टः आरटति भृशं. इतोऽकस्मात् तमेव ग्रामं दृष्टा राजपुत्री जातिस्मृति प्राप्य प्राम्भवं दृष्ट्वा पश्चाद्भवसंबंधिनं पति जज्ञे । ततः प्राह
करहा मकरि करक्वडो भार घणोघर दूरि ।
तूं लेतो हूं वारती राहु गिलंतइ भूरि ॥१॥ एतत् श्रुत्वोष्ट्रोऽपि जातिस्मृत्या प्राम्भवं ज्ञात्वा पश्चात्तापवान् लात्वाऽनशनं स्वगं गतः । 10
इति करहामकरि पापदाने उष्ट्रः सम्बन्धः ॥५४२।।
[ 543 ] अथ कर्मणि कृष्णसागरनीरसम्बन्धः । एकस्मिन् ग्रामे कृष्णभूपस्य मलयेन्द्रो पत्नी, सागरनीरौ पुत्रावभूताम् । गोत्रिभिः समेत्य राज्यं गृहीतम् ।
कृष्णः सकुटुम्बो रात्रौ नष्टः एकस्मिन् पुरे गतः । पत्नी परगेहेषु कम कृत्वा सर्वेषामुदराणि 15 भरंति । अन्यदा तत्रागतसार्थवाहेनापहृता, सार्थवाहस्ततोऽचलत् ता पत्नों कर्तुं तस्याः पुरः
प्राह यदा, तदा सा जगौ मया ब्रह्मचयव्रतं वर्षत्रयं यावद् गृहीतं तद्नु यथारुचिरं करिष्यते। ततः स सार्थो हष्टः, मलयेन्द्री स्वं शीलं पालयति, परं पतिपुत्रवियोगाद दुखिनो, इतः कृष्णः -पत्नीमदृष्ट्वा ततो निगतः, अग्रे गच्छतस्तस्य नदी समागता, एकं पुत्रं पूर्वनद्याः परकूले मुक्त्वा यावद् द्वितीयं पुत्रं नेतुमायाति तावत्मकरेण गृहीतो गिलितश्च । मकरो गच्छन् दूरं मात्सिकहस्ते चटितो। मासिकैर्विदारितः । पुमान निर्गतः । ततस्तैर्मुक्तश्चन्द्र पुरे । समेतो राज्ञा पुरद्वारे रक्षकः कृतः ।
इतो दैवयोगात् नदीतटयोह्रौं सागरनीरों सौवर्णिकहस्ते चटितौ, सौवर्णिकः स्वपुत्रौ कृत्वा स्थापयामास । क्रमाद् बधमानी अभ्यासं कुरुतः । ततः कस्यचित् क्षत्रियस्य अर्पितो स क्षत्रियो भूपस्य सेवा करोति ।
इतः स सार्थवाहस्तत्रायातः । राज्ञातौ क्षत्रियपुत्रौ रात्रौ रक्षा कर्तुं मुक्तौ तदा नीरसागरौ परस्परं स्वपितृमातृराज्यगमनादिकं चरित्रं सांप्रतिकमेवं सम्बन्धं प्रोचतुः तदा मलवेन्द्री स्वपुत्री जझौ, ततः सा पुत्रयोमिलिता प्राह
विहां कान्हड किहां मलयेन्द्री, किहां सायर किहां नीर । दैववसिंह मलयेन्द्री मिली, नो मिलीओ पुण कन्ह ॥१॥
25
"Aho Shrutgyanam"