________________
चतुर्थोऽधिकारः
[ २९९
5
10
मध्ये पंचमानकलवणक्षेपणं । सोढी प्राह रे रंडे ! किं अहं तव पित्रा जनितास्मि यन्मां भगिनीं वदसि । रंडा धान्येन न भ्रायते परगेहस्यतप्ति [ तातिं ] कुरुषे । भगिनीं मां वदंती त्रिजाता मां कथयिष्यसि गाली | छलात् । एवं यद्यत्प्राघूर्णिका वदति तत्तत् खण्डयति, ततः प्राघूर्णिका मौनं कृत्वा नंष्ट्रा गता । ततः कोऽपि तथा समं न वदति । ततः साऽन्यस्मिन् पुरे गत्वा चतुरहट्टे तृणपूलकं घटं पयोभृतं मुक्त्वा जगौ यः को विशो वा भवति स मया समं वादं करोतु | नो चेन्तृणपूलकं भक्षयतु । पानीयं पिबतु ततः कोऽपि वादं न करोति यदा राज्ञा पटहो वादितस्तया समं यो वादं कृत्वा जयं लभते तस्मै ग्राममेकं दीयते ततः श्रेष्ठिवधूः पटहं पस्पर्श । श्रेष्ठिप्राह मम वधूर्जल्पितुं न जानाति । ततो वधूः प्राह । तात, तव प्रासादादहं जेष्यामि । ततो राज्ञो सर्वे आयाताः श्रेष्ठिवधूः प्राह भो सोढि, त्वं कया रीत्या वादं करिष्यसि, एक दैवसिक्या, वाणूमासिकया, सांवत्सरिकया, यावज्जीविकया बा ? सोढि प्राहाहं विकल्पान् म जाने ततस्तयोक्त कथं तर्हि त्वं वादं करिष्यसि ? यदि विकल्पान न वेत्सि, विकल्पान विना वादो न भवति । तदा लोकैरादावेव सोढी हसिता । ततः सोढी प्राह-राटिका देवसिकी कथं कथ्यते । सा श्रेष्टिवधूः प्राह - भाटकेन शकटं गृह्यते तस्मिन् नारीद्वयमुपविशति भाटकं दवा, तदा एका वदति त्वया सकलं शकटं रुद्धं । एक वदति यद्वा तद्वा जल्पसि ? अपरा वदति त्वमपि एका-त्वं परतातिं करोषि अन्या - वदति त्वमपि इत्यादि कलिं कुरुते, द्वे अपि सन्ध्यां 16 यावत् सायं शकटादुत्तरितयोः राटिर्निवर्त्तते एषा प्रथमा देवसिको राटिः ॥ १ ॥ साध्यं क्षेत्रं द्वाभ्यां क्रियते यदा तदा यावद् धान्यं गृहे नायाति तावद् राटिर्भवति षाण्मासात धान्यं गृह्यते ततो द्वापि राटिं न कुरुतः ||२|| यदा पाटक: पट्टको गृह्यते द्वाभ्यां तदा वर्षे यावत् एकामाषाढीमारभ्य द्वितीयामाषाढीं यावत् राटिर्भवति ततो निवर्त्तते रादिः ||३|| एकस्य पुरुषस्य द्वे पत्न्यौ यदाजायेते तदा यावज्जीवं ते द्वे कलिं कुरुतः स्म, अतो यावज्जीविकाराटिः ||४|| श्रेष्ठिवधू- 20 चातुर्यं दृष्ट्वा मानं मुक्त्वा सोढी श्रेष्ठिवधूपदयोः पतित्वा प्राह मयात्र हारितं स्वया जितं ततः श्रेष्ठ धूः भूपपार्श्वादेकं प्रामं प्राप्य सूत्सवं (सोत्सवं ) स्वगृहे समायाता ।
इति राटिविषये सोढीसम्बन्धः ||५३४ ||
[35] अथ सिद्धराज प्रशंसित भोजन श्रीहेम सूरि सम्बन्धः ।
एकदा श्रीसिद्धराजजर्यासहो यात्रायां चचाल, सार्द्ध श्रीहेमसूरयोऽप्याकारिताः । वत्र्त्मनि 25 गुरून्प्रति राजा प्राह—भगवन्, रथे उपविश्यतां, दुष्करं पादसंचरण, गुरुः प्राह - साधूनां रथोपवेशनं पापनिबन्धनं ।
पद्भ्यामध्वनि संचरेयमनिशं भुञ्जीत भैक्ष्यं सकृत् जीर्ण वासवसाय भूमिवलये रात्रौ शयीय क्षणं । निःसंगत्वमधिश्रिये वसुमती - मुन्नासयेयानिशं, ज्योतिस्तत् परमं दधीय हृदये कुर्वीय किं भूभुजा ||१|| २ सिकनिवसीय, ३ धरणीतल गतो ।
१ कबीओ बसाइ,
"Aho Shrutgyanam"
उक्तं च
30