________________
चतुर्थोऽधिकार
मम का गतिः। ततो रात्रावेव नष्टो धर्मः । प्रातः राजा सभायां वादं श्रोतुमागतः । धर्म पण्डित नष्टं श्रुत्वा धनपालोप्यागतः । यदा राज्ञा धर्ममाकारयितुं जनः प्रेषितः धर्मो न लब्धः, नष्टो सातः सदा धनपाल: प्राह
धर्मो जयति नाधर्म इत्यलीकं कृतं वचः ।
इदं च सत्यतां नीतं धर्मस्य त्वरिता गतिः ॥१॥ ततो जयजयारावो जातः । धनपालागमनादेव धर्मपण्डितो नष्टः । इति "धर्मो जयति नाधर्म" इत्यादिसम्बन्धः ॥५२३।।
[524 ] अथ चौरवलयदाने भोजसम्बन्धः । एकदा भोजः कस्यचिद् द्विजस्य रोरस्य गृहसमीपे राबावेकाकी समागात् । तदा एकः स्तेना तस्मिन् [ गृहे ] प्रविष्टः तदा ब्राह्मणी प्रबुद्धा पर्ति प्रति प्राह
वासः खण्डमिदं प्रयच्छ, यदि वा स्वाके गृहाणात्मजं । रिक्तं भूतलमत्र नाथ ! भवतः पार्वे पलालोचयः ॥ दम्पत्योरिति संकथा निशि यदा चौरः प्रविष्टः तदा । लब्धं रकार्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन् निर्गतः ॥१॥
बहिरागतश्चौरः प्राहोच्चैः स्वरं ब्राह्मणं प्रति-निजउदरपूरणेऽपि हि न समर्था येऽवतारिता 15 कि तः। विप्रोऽवग्-सुसमथैरपि किं तैयें न परोपकारिणो ऽत्र । ततः तस्मै तस्कराय राजा निजं वीरवलयं ददौ प्राह-इदं बहुमूल्यं कृपया मया तुभ्यं दत्तं यतः--
चौरस्य करुणं ज्ञात्वा भोजः प्रमुदितो निशि । ददौ स वीरवलयं रयात् कुवलयेश्वरः ॥२॥
इति चौरवलयदाने भोजप्रबन्धः ॥५२४॥
[525 ] अथ खण्डप्रशस्तिकाध्यानयनसम्बन्धः । एका कोऽपि यानवाहकः समुद्रमध्ये यानारूढो चलत् यानं स्खलितं । तत्रैका भित्तिदृष्टा, सा पकायाः । ततस्तत्रजलेऽपसरिते काव्यानि खण्डप्रशस्तिसम्बन्धीनि ददशे । तथाहि
मत्स्यः कूम्र्मों वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च [a] वै दनः ॥१॥ इत्यादि 26
"Aho Shrutgyanam"