________________
चतुर्थोऽधिकारः
[ २८९
व्ययिष्यति । ततः पितरि मृते स सशिखं हारं व्ययन् वृद्धत्वे दरिद्रयभूत् स माघपण्डितः एक काव्यं भोजराजपार्श्वेऽप्रैषीत्
कुमुदवनमपनि श्रीमदंभोजखण्डं त्यजति 'मदमुलूकः प्रीतिमांचकवाका उदयमहिम रश्मिर्याति शीतांशुरस्तं, हतविधिललिताना ही विचित्रों विपाकः ॥६॥ अस्य काव्यश्रुतेर्भोजो नवनवतिलक्षान् ददौ । तदपि माघऔदार्यत्वाद् ददौ । इति माघसम्बन्धः ॥ ५१८ ||
,
[ 519 ] अथ धनपालश्राद्धभवनसम्बन्धः ।
10
अवन्त्यां लक्ष्मीधर विप्रस्य द्वौ पुत्रौ जातौ । एको धनपालो द्वितीयः शोभनः । एकदा तस्य गृहे यस्तो निहुकितो न लभते, तदा गुरुपार्श्वे निष्यप्राप्तिस्वरूपं कथितं लक्ष्मीधरेण । यदि मे निधिर्लभ्यते तदाह मेकस्य पुत्रस्य दीक्षां दापयामि । ततो गुरुणा दर्शितो निधिः । ततः शोभनस्य दीक्षा दापिता । शोभनो विद्वान् जातः क्रमात् पितरि मृते धनपालः पंचशत पंडितमध्ये मुरूयोऽजनि । स्वं भ्रातरं गुरुणा दीक्षितं श्रुत्वा मिध्यात्वग्रसितः साधून पराभवति । ततः साधवस्तत्र अवत्या पुरि न यान्ति ।
इतः एकस्मिन् पुरे गुरवः प्राप्तास्तदा गुरवः साधून् तीर्थ च स्मारयन्ति । अवंती नाम न गृह्णन्ति । तदा शोभनोऽवगू अवन्त्याः कथं नागतं ? गुरुभिः प्रोक्तं तव भ्राता दुष्टः साधूनां पराभवं 15 करोति । ततः शोभनो गुरूनापृच्छय अवन्त्य । स्वभ्रातुः प्रबोधायाचालीत् ।
t
१. मुद
ततोऽवन्त्या द्वारे यावन्गतः तावद् धनपालः संमुखो मिलितः । धनपाली हास्यात्प्राह, "गर्दभदंत भदंत नमस्ते ।" साधुः प्राह- मर्कटकास्य वयस्य ? सुखं ते । ततश्चातुरीं ज्ञात्वा धनपालोऽवग्, कस्य प्राघूर्णिकः ? 'साधुः प्राह तवैव । ततः स्वगृहे उत्तारितः धनपालेन गोष्ठि कृता । शोभनवचसा प्रीणितोsवम् - तव काप्यस्ति सांसारिक वर्गः । साधुः माहात्रैव । ततो धनपालेनोपलक्षितो भ्राता गृहे 20 विहर्तुमाकारयन् मोदका आनीता यदा तदा साधुना कस्मान्मक्षिका मृता दृष्टा, ततः प्रोक्तं, न कल्पन्तेऽमी । धनपालोऽवग् विषमस्ति ? साधुनोक्तं विषमत्र विद्यते । ततो ज्ञातं परंपरया वैरिक्षिप्तं विषं, दधि आनीतं । साधु प्राह कियद्दिनीयं । पंडितोऽवग, त्रिदिनीयं १ इदमपि न कल्पते बुधोऽवग् अत्र किं जीवाः सन्ति ? ततः साधुना आलक्तकं प्रदानात् श्वेताः सूक्ष्मजीवाः दर्शिताः । ततोऽन्यद् प्राकं आहारं ददौ । बुधो दध्यौ मया प्रन्था बहवो भणिताः परं न ज्ञाता जीवाः 25 कुत्रोत्पद्यन्ते । स धनपालः श्राद्धोऽभूत्सम्यकत्वं जग्राह । तदा शोभनभ्रातुः पार्श्वे शोभनपण्डितकृताः शोभनस्तुत्यादिप्रन्याबहवोऽन्ये च सिद्धान्ताद्याश्रिता ग्रन्थाः धनपालेन पेठे । ततो जैनधर्मस्वरूपमवगत्य जय जंतुकप्पपायवेत्यादि बहवो प्रन्थाः धनपालेन चक्रिरे ।
इति धनपाल श्राद्धभवनसम्बन्धः ॥ ५१९ ॥
"Aho Shrutgyanam"